________________
जम्बूस्वामिचरिते
एकशो बोधयाम्येनं परमोपेक्षवानपि । स्वतो गत्वापि तद्वेहे विद्यते मे मनोरथः ॥ १२९ ॥ अर्हद्धर्मोपदेशैश्चेत् प्रतिबुद्धः कथंचन ।
विरक्तो भवभोगेभ्यो निश्चितं स भवेन्मुनिः ॥ १३० ॥ चितयित्वेति चित्ते स्वे भावदेवी मुनिस्तदा । अशिश्रियद्गुरोः पार्श्वमाज्ञामादातुकाम्यया ।। १३१ ॥ दीयतां भगवन्नाज्ञा मह्यं भ्रातृविबोधने । बद्धकक्षाय कारुण्यात्त्वत्प्रसादैकभूमये ।। १३२ ।। एवं प्रसादयित्वा स्वगुरुं नत्वागमन्मुनिः । भवदेवगृहे रम्ये कृतेर्य्यापथशुद्धिभाक् ।। १३३ ।। अनंतरं ददर्शासौ भ्रातृगेहं सविस्मितः । मंडपाडंवराद्यं हि तोरणश्रीविराजितम् ॥ १३४ ॥ मंगलात धनादैश्च बधिरीकृतदिक्चयम् ।
चित्रोल्लेखैः समाकीर्ण मरुदां ( तां ) दोलितध्वजम् ॥ १३५ ॥ तारुण्यपूर्णनारीभिः कृतगानमहोत्सवम् ।
बंदिभिः स्तूयमानं च वेदवाक्यैरलंकृतम् ।। १३६ ॥ जाती कुंदादिपुष्पैश्च वासितं गंधशालिभिः । सत्कर्पूरविमित्रैश्च श्रीखंडैश्चर्चितं भृशम् ॥ १३७ ॥ मुनिनापि युतः सार्थे भावदेवः सुसंयतः । अविलंबतया प्राप्तस्तत्र भ्रातृगृहांगणे ।। १३८ ॥ ततो दृष्ट्वा समुत्थाय तूर्णमभ्युद्गमे विधिम् । प्रश्रयात्कारयामास भवदेवो नतानतः ।। १३९ ॥
१ आ समन्तात् तुद्यते इति आतोद्यं चतुर्विधं वाद्यं । २ विनयात् ।
६४