________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
६३
ततो नाथ कृपां कृत्वा दीक्षां मे देहि निर्मलाम् । सर्वसंगपरित्यागलक्षणां भवनाशिनीम् ।। ११८॥ श्रत्वैतद्भावदेवस्य बाष्पांभोगर्भितं वचः। उवाच वाचं सौधर्मो मुनिस्तत्पीणनक्षमाम् ॥ ११९ ।। निर्विण्णोऽसि यदा वत्स मत्वा भोगांश्च रोगवत । तदा दीक्षा गृहाणाशु रागिभिदुद्धरामिमाम् ।। १२० ।। गुरूपदेशतो नूनं धैर्यमालम्ब्य शुद्धधीः। निःशल्यो भावदेवोऽसौ प्रवद्राज द्विजोत्तमः ॥ १२१ ॥ ततःप्रभृति योगीशः साक्षाद्वाचंयमी यथा । स्वसंयमाविरोधेन विजहर्ष महीतले ।। १२२ ॥ गुणैर्गुरुणा गुरुणा साद्ध गच्छन्नकल्मषः । घोरमुग्रं तपः कुर्वन् स समः सुखदुःखयोः ॥ १२३ ॥ स्वाध्यायध्यानमैकाम्यं ध्यायनिह निरंतरम् । शब्दब्रह्ममयं तत्त्वमभ्यसन् विनयानतः ॥ १२४ ॥ धन्योऽस्म्यहं कृतार्थोऽस्मि यन्मया प्राप्तमुत्तमम् । जैन धर्ममिति प्राज्ञो मन्यमानः कृतार्थताम् ॥ १२५ ॥ अथान्येयुः स सौधर्मः सरिः संघसमन्वितः । विहरन्नागतो भूयो वर्द्धमानाभिधे पुरे ॥ १२६ ॥ भावदेवो मुनिस्तत्र स संस्मार विशुद्धधीः । वर्तते मेऽनुजो भ्राता पुरेऽस्मिन्निति चिंतयन् ॥ १२७॥ भवदेव इति ख्यातो विप्रः स्याद्विषयांधधीः। खात्महितमजानानो दुःश्रुतिग्रस्तचेतसः ॥ १२८ ॥