________________
जम्बूस्वामिचरिते
अनित्येषु शरीरेषु पुत्रपौत्रादिकेषु च । संपत्सद्मकलत्रेषु नित्यत्वं मनुते कुदृक् ।। १०७॥ दुःखबीजेषु भोगेषु रमते स्वमुखाशया । तद्वियोगे च दुःखार्तः सीदत्येव पशुर्यथा ॥ १०८ ॥ क्षणं कामी क्षणं लोभी क्षणं तृष्णापरायणः । क्षणं भोगी क्षणं रोगी भूताविष्ट इवाचरेत् ।। १०९ ॥ रागद्वेषमयीभूय भूयस्तत्र जडात्मकः । दुहेच्यं कर्म बनाति येन तदुर्गतिं व्रजेत् ॥ ११ ॥ कदाचिन्नारको भूत्वा तत्र दुष्कर्मपाकतः । असधैर्यातनादुःखैस्ताड्यते सागरावधिः ।। १११ ॥ कापि तिर्यग्गति प्राध्य जन्मनीचैःकुलेऽथवा । दुःखानां च सहस्रैश्च पीडितोऽयं भ्रमत्यहो । ११२ ॥ ततो नाभूस्थिरः क्वापि मध्येगतिचतुष्टयम् । विना सम्यग्दग्बोधवृत्तै तुरनंतशः ॥ ११३ ॥ अतः सुखार्थिनानेन प्राणिना धर्मसंग्रहः । कर्तव्योऽवश्यमेवायमजस्रं जिनभाषितः ॥११४॥ इमां निरुपमा वाचं प्रशांबुगी सुनेः। श्रुत्वास्य भावदेवस्य कंपितं हृदयं तदा ।। ११५ ॥ ततो निर्विष्णचित्तेन तेन संसारभीरुणा। विज्ञप्तो गुरुरेवासौ मुनिः सौधर्मसंज्ञकः ॥११६॥ स्वामिन् त्रायस्व मामद्य निमज्जंतं भवाम्बुधौ। यथाकथंचिदात्मीयं लभेय सुखमव्ययम् ॥ ११७ ॥ १ मिथ्यादृष्टिः।