________________
जम्बूस्वामिचरिते
दृष्ट्वाकस्मान्नराधीशो धीमान् विस्मयतां गतः ।
पप्रच्छ स्वामिनं भूयः किमिदं दृश्यतेऽधुना ॥ ६४ ॥ पृष्टः प्रत्याह धर्मेो राजानं श्रेणिकं प्रति । विद्युन्मालीति विख्यातो देवोऽयं स्यान्महर्द्धिकः ॥ ६५ ॥ चतसृभिर्नाभिः स समं धर्मानुरागतः ।
भगवद्वंदना सोडलं शीघ्रं तत्रागतस्तदा ॥ ६६ ॥ किंत्वितः सप्तमे चाह्नि दिवश्च्युत्वा भवांतकः । भुवमेष्यति भव्यात्मा चरमांगी भविष्यति ॥ ६७ ॥ श्रत्वेति तद्वचो भूपो भूयो भक्तिपरायणः । प्रीतो विज्ञापयामास भगवंतं जगद्गुरुम् || ६८ ॥ ॥ कृपासागर भो स्व मिन् यत्त्वयोक्तं सुयुक्तितः । षण्मासमायुषः शेषो यदा स्पात्त्रिदिवौकसाम् ॥ ६९ ॥ तदा मंदारमाला स्यान्माना कंठावलंबिनी । देहकांतिर्भवेत्तच्छा मंदायंते सुरद्रुमाः ॥ ७० ॥ तेजोव्यातं दिशां वक्त्रमस्य कांतिमयं वपुः । दृश्यतेऽध्यक्षतोऽपीश तत्कथं चित्रकारणम् ॥ ७१ ॥ इत्यदः संशयध्वांतं निराकुर्वन् जिनोंऽशुमान् । उवाच विष्टविष्टो गंभीरतरया गिरा ।। ७२ । राजन्नस्य कथावृत्तं सर्व चित्रास्पदं शृणु ॥ संवेगवर्द्धने हेतुर्निर्वेदजननक्षमम् ।। ७३ ।। तद्यथा मगधे देशे रम्येऽत्रैव प्रसिद्धके । धनधान्यहिरण्यादिपूर्ण प्रागेव वर्णिते ॥ ७४ ॥
५८
१ चरमशरीरी तद्भवमोक्षगामीति । २ देवानां । ३ मंदारपुष्पैः गुम्फिता माला । ४ सिंहासने उपविष्टः । ५ आश्चर्यकारकं ।