________________
जम्बूस्वामिचरिते
वर्णगंधरसस्पर्शयोगिनः पुद्गला मताः। पूरणाद्गलनाच्चैव संप्राप्तान्वर्थनामकाः॥४५॥ स्कंधाणुभेदतो द्वेधा पुद्गलस्य व्यवस्थितिः । स्निग्धरूक्षात्मकाणूनां संघातः स्कंध इष्यते ॥ ४६॥ द्वयणुकादिमहास्कंधपयतं तस्य विस्तरः। छायातपतमोज्योत्स्नापयोदादिप्रभेदभाक् ॥ ४७ ॥ सूक्ष्मसूक्ष्मास्तथा सूक्ष्माः सूक्ष्मस्थूलात्मकाः परे । स्थूलसूक्ष्मकाः स्थूलाः स्थूलस्थूलाश्च पुद्गलाः ॥ ४८ ॥ सूक्ष्ममूक्ष्मोऽणुरेकः स्याददृश्यो दृश्य एव च । सूक्ष्मास्ते कार्मणस्कंधाः प्रदेशानंतयोगतः॥ ४९ ॥ शब्दः स्पर्शो रसो गंधः मूक्ष्मस्थूलो निगद्यते । अचाक्षुषत्वे सत्येषामिन्द्रियग्राह्यतेक्षणात् ॥ ५० ॥ स्थूलसूक्ष्माः पुनर्जेयाश्छायाज्योत्स्नातपादयः। चाक्षुषत्वेऽपि संहार्यरूपत्वादविघातकाः॥५१॥ द्रवद्रव्यं जलादि स्यात्स्थूलभेदनिदर्शनम् । स्थूलस्थूलः पृथिव्यादिर्भेद्यं स्कंधः प्रकीर्तितः ॥ ५२ ।। आश्रवोऽपि द्विधा प्रोक्तो भावद्रव्यविभेदतः। आयो जीवात्मको भावः स चागुद्धः परत्वतः ॥५३॥
१ पृथ्वीरूपपुद्गलद्रव्यं बादरबादरं । छेत्तु भेत्तुं अन्यत्र नेतुं शक्यं तद्बादरबादरमित्यर्थः । जलं बादरं । यच्छेत्तुं भेत्तुमशक्य अन्यत्र नेतुं शक्य तदादरमित्यर्थः । छाया बादरसूक्ष्मं । यच्छेत्तुं भेत्तुमन्यत्र नेतुमशक्यं तद्वादरसूक्ष्ममित्यर्थः । यः चक्षुर्वजिंतचतुरिन्द्रियविषयो बाह्यार्थः तत्सूक्ष्मस्थूलं । कर्म सूक्ष्मं । यदद्रव्यं देशावधिपरमावधिविषयं तत्सूक्ष्ममित्यर्थः । परमाणुः सूक्ष्मसूक्ष्मं । यत्सविधिविषयं तत्सूक्ष्मसूक्ष्ममित्यर्थः ।