________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
तथैवाधर्मकायोऽपि जीवपुद्गलयोयोः । निवर्तयत्युदासीनो न त्वयं प्रेरकः स्थितेः ॥ ३७॥ जीवादीनां पदार्थानामवगाहनलक्षणम् । यत्तदाकाशमस्पर्शममृत व्यापि निष्क्रियम् ।। ३८॥ वर्तनौलक्षणः कालो वर्त्तना च पराश्रया । यथा स्वगुणपर्यायैः परिणतृत्वयोजना ॥ ३९ ॥ यथा कुलालचक्रस्य भ्रमणेऽधः शिला स्वयम् । धत्ते निमित्ततामेवं कालोऽपि कलितो बुधैः ॥ ४०॥ व्यवहारात्मकात्कालान्मुख्यकालविनिर्णयः ।। मुख्ये सत्येव गोणस्य वाहीकादेः प्रतीतितः ॥४१॥ सकालो लोकमात्रैः खैरणुभिर्निचितः स्थितेः। ज्ञेयोऽन्योन्यमसंकीर्णे रत्नानामिव राशिभिः ॥ ४२ ॥ प्रदेशपचयायोगादकायोऽयं प्रकीर्तितः । शेषाः पंचास्तिकायाः स्युः प्रदेशोपचितात्मकाः ।। ४३ ।। धर्माधर्मवियत्कालपदार्था मूर्तिवर्जिताः। मूर्तिमत्पुद्गलद्रव्यं तस्य भेदानितः शृणु ॥४४॥
१ धर्माधमौं पुनर्गतिस्थितिक्रियाविशिष्टानां द्रव्याणामुपकारकावेव न पुनर्बलागतिस्थितिनिर्वतको । यथा च सरित्तटाकहदसमुद्रेषु वेगवाहित्वे सति मत्स्यस्य खयमेव संजातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति, दण्डादिवत्कुंभकारे कतरि मृदः परिणामिन्याः, नभोवद्वा नभश्चरतां नभश्चराणामपेक्षाकारण, न पुनस्तजलं गतेः कारणभावं बिभ्राणमगच्छन्तमपि मत्स्यबलात्प्रेयं गमयति, क्षितिवी स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठव्यं बलादवनिरस्थापयति । षड्दर्शनसमुच्चयटीका पृ. ६८।।
२ प्रतिद्रव्यपर्यायमंतनीतैकसमया खसत्तानुभूतिर्वर्तना।