________________
५४
जम्बूस्वामिचरिते
annoncernanamannarimaaaaanaanaanaanandsamn.
यतो जीवत्यजीवच्च जीविष्यति च जन्मसु । ततो जीवोऽयमानातः सिद्धः स्याद्भुतपूर्वकः ॥ २८ ॥ भव्याभव्यौ तथा मुक्त इति जीवस्त्रिधोदितः । भविष्यत्सिद्धको भव्यः सुवर्णोपलसंनिभः ॥ २९ ।। अभव्यस्तु विपक्षः स्यादधपाषाणसंनिभः । मुक्तिकारणसामग्री न तस्यास्ति कदाचन ॥ ३० ॥ कर्मबंधननिर्मुक्तस्त्रिलोकशिखरालयः। सिद्धो निरंजनः प्रोक्तः प्राप्तानंतमुखोदयः ॥ ३१ ॥ इति जीवपदार्थस्ते संक्षेपेण निरूपितः । अजीवतत्वमप्येवमवधानतया शृणु ॥ ३२ ॥ अजीवलक्षणं तत्वं पंचधैव प्रपंच्यते । धर्माधर्मों च साकाशं कालः पुद्गल इत्यपि ॥ ३३ ।। जीवपुद्गलयोऽर्थः स्याद्गत्युपग्रहकारणम् । धर्मद्रव्यं तदुद्दिष्टमधर्मः स्थित्युपग्रहः ॥ ३४ ॥ यथा मत्स्यस्य गमनं विना नैवभिसा भवेत् । न चांभः प्रेरयत्येनं तथा धर्मोऽस्त्यनुग्रहः ॥ ३५ ॥ तरुच्छाया यथा मत्यै स्थापयत्यर्थिनं खतः। न त्वेषा प्रेरयत्येनमथ च स्थितिकारणम् ॥ ३६॥
१ स्यादेतदनंतकालेनापि यो न सेत्स्यत्यसावभव्यतुल्यत्वादभव्य एव । अथ सेत्स्यति सर्वो भव्यस्तत उत्तरकालं भव्यशून्यं जगत् स्यादिति ? तन्न, किं कारण ? भव्यराश्यंतभावात् । यथा योऽनंतेनापि कालन कनकपाषाणो न कनको भविष्यति न तस्यांधपाषाणत्वं कनकपाषाणशक्तियोगात्। यथा वागामिकालो योऽनंतेनापि कालेन नागमिष्यति न तस्यागामित्वं हीयत । तथा भव्यस्यापि स्वशक्तियोगादसत्यामपि व्यक्ती न भव्यत्वहानिः । त. राजवार्तिक २-७-९ । पृ.७७ ।