________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
सम्यग्दर्शनमादौ स्याद्वाच्यं ज्ञप्तिरतः परम् । यस्माच्छ्रद्धानशून्यस्य ज्ञानस्याज्ञानता मता ॥ १९ ॥ उक्तं च"जीवादीसदहणं सम्मत्तं रूवमप्पणो तं तु । दुरभिणिवेसविमुक्कं गाणं सम्मं खु होदि सदि जम्हि" ॥२०॥ द्वाभ्यां पूर्व हि (पश्चाद्धि) चारित्रं प्रोक्तं चार्थक्रियाकरम् । क्रियमाणं तु तत्छ्न्यं स्यादचारित्रवद्यतः ॥२१॥ तत्त्वज्ञानार्थमेतेषां वाच्यं लक्ष्म यथागमम् । अस्तित्वादिव सामान्याज्ज्ञानादित्वं विशेषतः॥२२॥ तद्यथा तत्र जीवोऽस्ति स चानाधावसानकः। नित्यः स्वतश्च सिद्धत्वात्तच्च कायाद्यभावतः ॥ २३ ॥ स चासंख्यातदेशी स्यादनंतगुणवानपि । स्यातां तस्य व्ययोत्पादौ कथंचिदितिपर्ययैः ॥२४॥ चेतनालक्षणो जीवो विशेषाल्लक्षणादिह । ज्ञाता द्रष्टा च कर्ता च भोक्ता देहप्रमाणकः ॥२५॥ गुणवान् कर्म निर्मुक्तावर्द्धवज्यास्वभावकः। परिणतोपसंहारविसर्पाभ्यां प्रदीपवत् ॥२६॥ जीवः पाणी च जंतुश्च क्षेत्रज्ञः पुरुषस्तथा। पुमानात्माऽतरात्मा च ज्ञो ज्ञानी तस्य पर्ययाः॥ २७॥ १ सम्यक्त्वे सति ज्ञानं सम्यग्भवतीति यदुकं तस्य विवरणं क्रियते । तथाहि । गौतमाग्निभूतिवायुभूतिनामानो विप्राः पंचपंचशतब्राह्मणोपाध्याया वेदचतुष्टयं ज्योतिष्कव्याकरणषडङ्गानि मनुस्मृत्याद्ययादशस्मृतिशास्त्राणि यद्यपि जानन्ति तथापि तेषां हि ज्ञानं सम्यक्त्वं विना मिथ्याज्ञानमेव । ब्रह्मदेवकृतद्रव्यसंग्रहवृत्तौ ४२।