________________
जम्बूस्वामिचरिते
विवक्षामंतरेणापि विविक्ताऽसीत् सरस्वती । महीयसामचिन्त्या हि योगजाः शक्तिसंपदः ॥९॥ शृणु श्रेणिक तत्त्वार्थान् वक्ष्यमाणाननुक्रमात् । जीवादीन् कालपर्यतान् गौतमश्चाब्रवीत्तदा ॥१०॥ जीवाजीवावाश्रवबन्धौ किल संवरश्च निर्जरणम् । मोक्षस्तत्त्वं सम्यग्दर्शनसद्धोधविषयमखिलं स्यात् ॥ ११॥ आश्रवबन्धवपुरिदं पुण्यं पापं स्वभावतो न पृथक् । तस्मान्नो दिष्टं खलु तत्त्वदशा मरिणा सम्यक् ॥ १२ ॥ पोढा द्रव्योपदेशः स्याद् द्रव्यलक्षणयोगतः। द्रव्यत्वं नाम किंचेत्स्याद्गुणपर्ययवचतः ॥१३॥ तल्लक्षणस्वभावत्वाज्जीवः स्याद् द्रव्यसंज्ञकः । पुद्गलश्चापि तद्योगाद् द्रव्यमित्यभिलप्यते ॥१४॥ धर्माधर्माविहाकाशं कालश्चापि तथाविधः। चत्वारोऽपि च सत्त्वात्ते द्रव्यसज्ञात्मकाः पृथक् ॥ १५ ॥ अस्तिकायस्वभावत्वात्संति पंचास्तिकायिकाः। प्रदेशपचयाभावात्कालस्य नास्ति कायता ॥१६॥ जीवादीनां पदार्थानां याथात्म्यं तत्त्वमिष्यते । सम्यग्ज्ञानं हि तज्ज्ञानं श्रद्धानं दर्शनं मतम् ॥ १७॥ कर्मादाननिदानानां भावानां च निरोधतः । चारित्रं तत्त्रयं विद्धि मुक्त्यंगं कर्मशातनात् ॥ १८ ॥ १ महापुरुषाणां। २ जीवादिश्रद्धानं सम्यक्त्वं रूपं आत्मनः तत् तु । दुरभिनिवेशविमुक्तं ज्ञानं सम्यक् खलु भवति सति यस्मिन् । द्रव्यसंग्रहे ४१।