________________
अथ तृतीयोऽध्यायः
जीयात्स टोडरः साधुः साधुपासांगजः कृती। दानबुद्धिस्तु यस्योच्चैः श्रेयांसनोपमीयते ॥ इत्याशीर्वादः ॥ संभवं भवदुःखानां हतारं तीर्थनायकम् । अभिनंदनं च वंदामो वंदितं त्रिदशेश्वरैः ॥१॥ ततो निभृतमासीने प्रवद्धकरकुइमले। सदःपद्माकरे भर्तुः प्रबोधमाभलाषुके ॥ २॥ भक्त्या श्रेणिकभूपेन विनयानतमौलिना। विज्ञापनमकारीत्यं तत्त्वं जिज्ञासुना गुरोः ॥३॥ भगवन् बोटुमिच्छामि कीदृशस्तत्त्वविस्तरः। मार्गों मार्गफलं चापि कीहक तत्त्वं विदांवर ॥४॥ तत्पश्नावसितावित्थं भगवानंततीर्थकृत । तत्वं प्रपंचयामास गंभीरतरया गिरा ॥ ५॥ प्रवक्तुरस्य वक्त्राब्जे विकृति व काप्यभूत् । दर्पणे किमु भावानां विक्रियाऽस्ति प्रकाशते ॥६॥ ताल्वोष्ठमपरिस्थंदि सर्वांगेषु समुद्भवाः । अस्पृष्टकरणा वणों मुखादस्य विनियेयुः ॥ ७॥ स्फुरदिगारगुहोद्भुतप्रतिध्वनितसंनिभः। प्रस्पष्टार्थको निरगाद ध्वनिः स्वायंभुवात् मुखात् ॥ ८॥ १ यत्सर्वात्महितं न वर्णसहितं न स्पन्दितौष्ठद्वयं नो वाञ्छाकलितं न दोषमलिनं न श्वासरुद्धक्रमम् । शान्तामर्षविषैः समं पशुगणैराकर्णितं कर्णिभिस्तनः सर्वविदः प्रणष्टविपदः पायादपूर्व वचः ॥ इति संग्रहश्लोकः ।