________________
४२
जम्बूस्वामिचरिते
दध्वान ध्वनदंभोदध्वनितानि तिरोदधन् । वैयंतरेषु गेहेषु महानानकनिःस्वनः ॥ २४९।। संखः संखरवैः (१) सार्धं यूयमेव जिघृक्षवः । इतीव घोषयन्नुच्चैः फणीन्द्रभवने ध्वनन् ॥ २५० ॥ विष्टरान्यमरेशानामासनः प्रचकंपिरे । अक्षमाणीव तद्र्व सोडुं जिनजयोत्सवे ।। २५१ ।। पुष्पांजलिमिवातेनुः समंतात्सुरभूरुहः । चलच्छाखाकरैर्दीप्तैविगलत्कुसुमोत्करैः ।। २५२ ।। दिशः प्रसत्तिमासे दुर्व्यभ्राजे व्यभ्रमंवरम् । विरजीकृतभूलोकः शिशिरो मरुदावभौ ।। २५३॥ इति प्रमोदमातन्वन्नकस्माद्भवनोदरे। केवलज्ञानपूर्णेन्दुर्जगदब्धिमवीवृधन् ॥ २५४ ।। तमैरावणमारूढः सहस्राक्षोऽद्युतत्तराम् । पद्माकर इवोत्फुल्लपंकजो गिरिमस्तके ।। २५५ ।। द्वात्रिंशद्वदनान्यस्य प्रत्यास्यं च रदाष्टकम् । सरः प्रति रदं तस्मिन्नब्जिन्येका सरः प्रति ॥ २५६ ।। द्वात्रिंशत्मसवास्तस्यास्तावत्पमितपत्रिकाः। तेष्वायतेषु देवानां नर्तक्यस्तत्समाः पृथक् ॥ २५७ ।। नृत्यंति सलयस्मेरवक्त्राजा ललितभ्रवः । पश्यच्चित्तद्रुमेषूच्चैनश्यंतः (१) प्रमदांकुरान् ।। २५८ ॥ तासां सहासशृंगाररसभावलयान्वितम् । पश्यतः कीमुदीमायं नृत्य पियिर सुराः॥२५९ ॥ १ कल्पवृक्षः । २ ऐरावतहस्तिनं । ३ संतोषं प्राप्ताः ।