________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
४३
प्रयाणे सुरराजस्य नेदुरप्सरसः पुरः। रक्तकंठाश्च किंनो जगुर्जिनपतेर्जयम् ।। २६० ।। ततो द्वात्रिंशदिंद्राणां पृतना बहुकेतनाः। प्रसस्रुर्विलसच्छत्रचामराः प्रततामराः ॥ २६१ ।। अप्सर कुंकुमारक्तकुचचक्राहयुग्मके। तद्वक्त्रपंकजच्छन्ने लसंतनयनोत्पले ॥ २६२ ।। नभःसरसि हारांशुस्वच्छवारिणि हारिणि । चलंतश्चामरास्तत्र हंसायन्त स्म नाकिनाम् ।। २६३ ।। इंद्रनीलमयाहार्यरुचिभिः कचिदाततम् । स्वामाभांति बिभरामास धौतासिनिभमंबरम् (१) ॥ २६४॥ पद्मरागरुचा व्याप्तं कचियोमतलं बभौ। सांध्यरागमिवावभ्रदनुरंजितदिङ्मुखम् ।। २६५ ॥ कचिन्मरकतच्छायासमाक्रांतमभानमः। सशैवलमिवांभोधेर्जलपर्यतसंस्थितम् ।। २६६ ॥ तन्व्यः सुरुचिराकारा लसदंशुकभूषणाः । तत्रामरस्त्रियो रेजुः कल्पवल्ल्य इवांवरे ।। २६७॥ तासां स्मेराणि वक्त्राणि पद्मबुद्धयानुधावताम् । रेजे मधुलिहां माला धनुर्येव मनोभुवः ॥ २६८ ॥ सुरानकमहाध्वानः पूजावेलापरां दधन् । प्रचलोल्लोलकल्लोलो बभौ देवागमांबुधिः ।। २६९ ॥ तत्र दिव्यांगनारूपैयहस्त्यादिवाहनः। उच्चावचैनभावम॑ भेजे चित्रपटश्रियम् ॥ २७०॥ १ सेना । २ कृशाङ्ग्यः । ३ हास्ययुक्तानि । ४ हयः अश्वः ।