SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते निसर्गसुभगा नार्यो निसर्गचतुरा नराः। निसर्गललितालापा बाला यत्र गृहे गृहे ॥२०७ ॥ यत्र सत्पात्रदानेषु प्रीतिः पूजासु चाहताम् । शक्तिरात्यंतिकी शीले प्रोषधे च रतिनृणाम् ॥ २०८ ॥ देशस्यास्यैकदेशेऽस्मिन्नाम्ना राजगृहं पुरम् । यत्र राजन्यकं शश्वद्राजते दिविराडिव ।। २०९ ॥ यत्राभ्रंलिहसौधाग्रकलशैः शातकुंभजैः। सदा संभाव्यते पौरैः शतचन्द्रं नभस्तलम् ।। २१० ॥ जिनप्रासादशिखरं दंडोत्तंभितकेतैनैः। किं किलाकाशगंगायाः प्रवाहः शतधा भवेत् ॥ २११ ॥ गृहवातायनस्थानां नारीणां मुखमंडनैः । उइंडपुंडरीकानां सरसां श्रियमावहन् ।। २१२ ।। यत्सुंदरीणां सौंदर्य दर्श दर्श सुरस्त्रियः । प्रत्यूहचकिता मन्ये तस्थुरुन्मेषितेक्षणाः ।। २१३ ॥ यत्र तौर्यत्रिकैवानेधूपधुमविवर्तनैः । सदैव दुर्दिनीत्या केको तन्वंति केकिनः ॥ २१४ ॥ तत्र राजाधिराजोऽयं राजते श्रेणिकः सुधीः । निर्जिताशषभूपालरावितपदद्वयः ॥ २१५ ।। सर्वतोऽस्य सुलक्ष्माणि नालं वर्णयितुं कविः । तस्मादिग्मात्रमेवात्र लक्ष्ये सामुद्रिकं यथा ॥ २१६॥ १ तपनीयं शातकुंभ इत्यमरः । २ पताकाभिः। ३ तौर्यत्रिक नृत्यगीतवाद्यं नाटयमिदं त्रयम् इत्यमरः । ४ मेघभ्रान्त्या। ५ केका वाणी मयूरस्य ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy