________________
३२
जम्बूस्वामिचरिते
क्रमादायुःशरीराणां हानिः स्याच प्रतिक्षणम् । धर्मस्यापि च कस्मिंश्चिद्देशे सत्वं च देशतः॥१४६॥ तत्राप्यस्ति निराबाधं सम्यक्त्वद्वयमादितः। क्षायिकं च भवेत्तत्र यत्र केवलिनो जिनाः ॥१४७॥ उक्तं च-- "पढेमं पढमे णियदं पढमं विदियं च सव्वकालेसु खाइयसम्मत्तो पुण जत्थ जिणो केवली तम्हि"॥१॥ महाव्रतानि संत्यस्मिन् देशतोऽणुव्रतानि च । दुर्लभानीह केषांचिदागुणस्थानसप्तकम् ॥१४८॥ किं चापि भद्रकाः केचिद्दयादानादितत्पराः। शीलोपवाससंपूर्णाः स्वर्गे गच्छंत्यनारतम् ॥ १४९ ॥ इत्यादीनि च कार्याणि विद्यते यत्र चांगिनाम् । आप्तोपदेशतः सोऽयं कालो दुःषमसंज्ञकः ।। १५०॥ पर्यन्ते चास्य यत्किंचिद् वृत्तातं तन्निगद्यते । लेशतोऽप्यल्पबुद्धीनां बुद्धिसंमर्षणक्षमम् ।। १५१ ॥ यायिनि दुःषमकालेऽस्मिन् शीघ्रमेष्यति चापरे । षष्ठे दुःपमदुःपाख्ये वक्ष्यमाणक्रमस्त्वयम् ॥ १५२ ॥ कुत्रचित्सर्वविदृष्टे देशे भूपोऽपि धर्महा । स्यात्कलंकीति विख्यातो हालाहलविषोपमः ॥१५३ ।। १ प्रथमं प्रथमे नियतं प्रथमं द्वितीयं च सर्वकालेषु ।
क्षायिकसम्यक्त्वः पुनः यत्र जिनः केवली तस्मिन् ॥ इयं गाथा लाटीसंहितायामपि उक्तं चेति रूपेण उद्धृता । २ निरंतरं।