________________
श्रेणिकमहाराजसमवसरणगमन वर्णनम् ३१
ततो नक्षत्रनामा च जयपाले (लो) महातपाः । पांडव ध्रुवसेनश्च कंसाचार्य इति क्रमात् ।। १३५ | एकादशांगविद्यानां पारगाः स्युर्मुनीश्वराः । विंशद्विशतमब्दानामेतेषां कालसंग्रहः ।। १३६ ।। तदा तत्त्वोपदेशस्य भागांशै र्हानिरिष्यति । करस्थनीरवन्न्यायात्प्रोक्तं विश्वविशारदैः ॥ १३७ ॥ सुभद्रश्व यशोभद्रो भद्रबाहुर्महायशाः । लोहार्यश्चेत्यमी ज्ञेयाः प्रथमांगाब्धिपारगाः ।। १३८ ॥ समानां शतमेषां स्यात्कालोऽष्टादशभिर्युतः । तदा तत्त्वोपदेशश्च भागांशेनावशिष्यते ॥ १३९ ॥ ततोऽपि हीयमानोऽसौ शेषमात्रोऽवतिष्ठते । दोषात्पंचमकालस्य हीयंते बुद्धयो नृणाम् ।। १४० ॥ तत्र दुःषमकालेऽस्मिन् प्रमाणं जिनदेशितम् । शुद्धवर्षसहस्राणामेकविंशतिसंख्यया ।। १४१ ॥ ततः श्रेण्योरभावः स्यान्मनः पर्ययबोधयोः । देशावधिं विना परमसर्वावधिबोधयोः ॥ १४२ ॥ ऋद्धीणां चापि सर्वासामभावस्तपसः क्षेतेः । नापि देवागमस्तत्र कल्याणानामभावतः ॥ १४३ ॥ कदाचित्कुत्रचित्केचित्क्षुद्रदेवाः कथंचन । आगच्छंति पुनस्तत्र सद्भिः प्रोक्तं जिनागमे ।। १४४ ॥ तत्रोत्कृष्टं मनुष्याणामायुर्वर्षशतं मतम् । विंशत्यधिकमेवेदं धनुरेकं वपुः स्मृतम् ॥ १४५ ॥
१ नाशात् ।