________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
अपि चैषां कुलिंगानि नानारूपाणि सर्वशः। त्रिशूलादिजटाभस्मैर्विकृतानि भवंत्यहो ।। १२० ।। एकदंडी द्विदंडी च त्रिदंडी चापि कश्चन । हंसः परमहंसोऽपि महारण्ये पशूपमाः॥१२१ ॥ इतिप्रभृति यावंति कुलिंगानि कुलिंगिनाम् । नाममात्रतया तानि क्षमो वक्तुं न कश्चन ॥ १२२ ॥ अलं वर्णनया चास्य यत्र पापाः समक्षतः। दृश्यंते यवना भूपाः साधवो व्याधिपीडिताः॥ १२३॥ इदमत्र समाकृतं विज्ञेयं परमार्थिभिः। जैनो धर्मः क्षणं यावद्विस्मार्यों न महात्मभिः ॥ १२४ ॥ यथाघमातोऽपि सौवर्ण्य जात्यजांबूनदः स्वतः न जहाति तथा साधुः क्षुद्रैः क्षुब्धोऽपि धर्मवत् (ताम्) ॥१२५।।
१ ते व द्विजा एव भगवन्नामधेयाश्चतुर्विधाभिधीयन्ते कुटीचर-बहूदक-हंसपरमहंसभेदात् । तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽश्नन् कुट्यां निवसन् कुटीचर उच्यते। कुटीचरतुल्यवेषो विप्रगेहनैराश्यभिक्षाशनो विष्णुजापपरो नदीतीरस्नायी बहूदकः कथ्यते । ब्रह्मसूत्रशिखाभ्यां रहितः काषायाम्बरदण्डधारी प्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधमेषु विगताग्निषु विप्रगेहेषु भिक्षा मुजानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते । हंस एवोत्पन्नज्ञानश्चातुर्वर्ण्यगेहभोजी स्वेच्छया दण्डधार ईशानी दिशं गच्छन् शक्तिहीनतायामनशनग्राही वेदान्तैकघ्यायी परमहंसः समाख्यायते । एषु चतुर्पु परः परोऽधिकः । एते च चत्वारोऽपि केवलब्रह्माद्वैतवादसाधनकव्यसनिनः शब्दार्थयोनिरासायानेकाः युक्तीः स्फोरयन्तोऽनिर्वाच्यतत्त्वे यथा व्यवतिष्ठन्ते तथा खण्डनतर्कादभियुक्तैरवसेयम् ।
गुणरत्नकृतायां हरिभद्रकृतषड्दर्शनसमुञ्चयटीकायां पृ० ११५ ।