________________
२८
जम्बूस्वामिचरितेएकमेवाद्वयं ब्रह्म नेह नानास्ति कश्चन । संति वेदांतिनः केचिद्ब्रह्माद्वैतप्रवादिनः॥ ११२ ॥ तन्मतं यथा"विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतः पात्
संबाहुभ्यां धमति संपतत्रैर्यावाभूमी जनयन् देव एक एव" ॥१॥ सर्वथानित्यमेवैतत्तत्त्वं केचिज्जगुर्यथा । आकाशं च तथात्मादि सर्वमेकान्तवादिनः॥ ११३ ॥ यत्सत्तक्षणिकं सर्वं यथा शब्दश्च वारिदः। इति बौद्धादयः केचित् क्षणिकैकान्तवादिनः ॥ ११४ ।। पंचभूतात्मकं तत्वं जीवो नास्तीह कश्चन । ततो बंधो न मोक्षोऽस्ति जगुः कापालिका इति ॥ ११५ ॥ ज्ञानानां यदि धर्माणां संतानोच्छेदनात्मकः । मोक्षो वाच्यः स जीवस्य मन्यते दुईशः परे ।। ११६ ॥ इत्यादि बहवो प्रोक्तास्तेषामंतर्भिदात्मकाः। ते च हुंडावसर्पिण्यां जायंते नान्यदा कचित् ॥ ११७ ॥ स्यावादगर्भिणी जीयाज्जैनी सिद्धान्तपद्धतिः । ययेव वज्रसारेण खंडिताः कुमताद्रयः॥ ११८ ॥ निग्रहस्थानमेतेषां पुरस्ताद्वक्ष्यते कविः । मुख्यो विवक्षितो वाच्यस्तत्र दिग्मात्रतोऽपरः ॥११९ ॥ १ सर्व वै खल्विदं ब्रह्म नेह नानास्ति किंचन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन ॥
इति छान्दोग्य-उपनिषदि ३-१४ ॥ २ शुक्लयजुर्वेदसंहितायां १७-१९।