________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
गृहस्थाश्च सदाचाराः पूजादानादितत्पराः। एकादिकं यथाशक्ति प्रतिमाख्यं व्रतं दधुः।।१०१॥ किंत्वैकादशसंज्ञात्मव्रतवानिह कश्चन । त्यक्तागारः सनिर्विण्णस्तिष्ठते मुनिवत्तथा ।। १०२॥ आगोपालमथावालं सर्वो जैनः प्रजाजनः । कदाचिद्भवो न स्याद्वयक्तं पाखंडिनामिह ॥ १०३ ॥ किन्तु हुंडावसर्पिण्यां कालदोषादिह कचित् । प्रादुर्भवंति पाखंडास्तथापि च वृषक्षतिः ॥ १०४॥ गतायामवसर्पिण्यामुत्सर्पिण्यां तथैव च । असंख्यकोटिवारं स्यादेका हुंडावसर्पिणी ॥ १०५ ॥ अवश्यं भाविनी सेयं भूत्वा चापि गता पुरा । अनंतानंतशश्चापि वत्सरे मलमासवत् ॥ १०६॥ तदा भवत्यनर्थानां प्रादुर्भावो बलादिह । सीमानं कालचक्रस्य भेत्तुं शक्यो न कश्चन ॥१०७॥ यथा स्वयं स्वभावाद्वै वर्षान्ते शरदिष्यते । तथा कालपरिभ्रांत्या द्रव्याणां च व्यवस्थितिः ॥१०८॥ तद्यथा तत्र हुंडावसर्पिण्यां वा यथागमम् । तीर्थेशामुपसर्गो हि महानर्थो महात्मनाम् ।। १०९॥ मानभंगश्च चक्रेशं जायते जातपूर्वकः। इत्यादि बहवोऽनाः संति वाचामगोचराः ॥११॥ हिंसा प्राणिवधश्चेयं दुष्कर्मार्जनकारणम् । यागार्थ श्रेयसे हिंसा मन्यते दुधियो द्विजाः ॥ १११ ॥
GG