________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
२५
प्रजानां हितकृद्भूत्वा भोगभूमिस्थितिच्युतौ । नाभिराजस्ततोद्भूतो भेजे कल्पतरूस्थितिम् ॥ ८ ॥ तस्योद्वाहकल्याणं मरुदेव्या समं तदा । यथाविधि सुराश्चक्रुः पाकशासनशासनात् ॥ ८१ ॥ ततश्चापि महादेशानयोध्यांश्च पुरी व्यधु: ग्रामपत्तनसीमादि संवे चक्रुः सुरास्तदा ।। ८२ ॥ ततम्प्रभृति क्षेत्रेऽस्मिन् वर्तते कर्मभूरिति । अवस्थांतरमेव स्यात्कालचक्रपरिभ्रमात ॥८३ ॥ सागरोपमकोटीनां कोटिः स्याचदवस्थितिः। तुर्यपंचमषष्ठाश्च भेदास्तत्राप्यमी क्रमात ।। ८४॥ तत्रोक्तसंख्यकस्तुर्यो कालः स्याकिचिदनकः । द्वाचत्वारिंशदब्दानां सहस्राणि विनैव सः॥ ८५॥ तत्रादौ तुर्यकालस्य वृषभस्तीर्थकुद्भवेत् । ततःप्रभृति मोक्षस्य मार्गश्च प्रकटोऽभवत् ।। ८६ ॥ ततोत्सेधः शरीरस्य धनुः पंचशतं मतम् । उत्कर्षेण मनुष्याणां पंचविंशतिसाधिकम् ॥ ८७ ॥ आयु प्रमाणमाम्नातं पूर्वाणां कोटिरुत्तमम् । मध्यमं च निकृष्टं च विज्ञेयं परमागमात् ।। ८८ ॥ तत्र तीर्थकराः सर्वे चतुर्विशतिसंख्यया। जायन्ते पंचकल्याणप्राप्तपूजर्द्धिवेभवाः ॥ ८९॥ तत्र केचिन्महात्मानः काललब्धिवलादिह । प्राप्तातीन्द्रियसौख्यास्ते निर्वास्तिान्नुमो वयम् ॥ ९॥
१ पाकं तन्नामासुरं शास्ति इति पाकशासनः इन्द्रः । २ वर्षाणां । ३ कथितं । ४ निर्वाणं गताः।