________________
जम्बूस्वामिचरिते
किमिमे परिहर्त्तव्याः किं वा भोग्यफला इमे । फलेग्रहीनिमेऽस्मान्वा निगृण्हन्त्यनुपान्ति वा ॥ ६९ ॥ अमीषामुपशल्येषु केऽप्यमी तृणगुल्मकाः । फलनम्रशिखा भांति विश्वदिक्षु मितोऽमुतः ॥ ७० ॥ एतेषामुपयोगः स्याद्विनियोज्यः कथं नु वा । किमिमे स्वैरसंग्राह्या न वेतीदं वदाद्य नः ॥ ७१ ॥ त्वमेव सर्वमप्येतद्वेत्सि नाभेऽनभिज्ञकाः । पृच्छामो वयमद्यातस्ततो ब्रूहि प्रसीद नः ॥ ७२ ॥ इति कर्तव्यतामूढानतिभ्रांतांस्तदायकान् ।
नाभे (भि)र्न भेयमित्युक्त्वा व्याजहार पुनः सतान् । ७३ । इमे कल्पतरूच्छेदे द्रुमाः पक्वफलानताः । युष्मानद्यानुगृण्हंति पुरा कल्पद्रुमा यथा ॥ ७४ ॥ भद्रकास्तदमे योग्याः कार्या न भ्रान्तिरत्र वः । अमी च परिहर्तव्या दूरतो विषवृक्षकाः ॥ ७५ ॥ इमाव काश्चनौषध्यः स्तंबकार्यादयो मताः । एताः संभोज्यमन्नाद्यं व्यंजनाद्यैः सुसंस्कृतम् ॥ ७६ ।। स्वभावमधुराश्चैते दीर्घाः पुंड्रेक्षुदण्डकाः । रसीकृत्य प्रपातव्या दन्तैर्यन्त्रैश्च पीडिताः ॥ ७७ ॥ गजकुम्भस्थले तेन मृदा निर्वर्त्तितानि च । पात्राणि विविधान्येषां स्थाल्यादीनि दयालुना ॥ ७८ ॥ इत्याद्युपायकथनैः प्रीत्या सत्कृत्य तं मनुम् । भेजे (जु) स्तद्दर्शितां वृत्तिं प्रजाः कालोचितां तदा ॥ ७९ ॥
१ समीपेषु । २ धान्यं व्रीहिः स्तम्बकरिः इत्यमरः ।
२४