________________
अथ द्वितीयः सर्गः
सम्यक्त्वरत्नं भवताद्भवाब्धौ पोतायमानं निपतज्जनानाम् श्रीसाधुसाधोर्भुवि टोडरस्य पासात्मजस्याखिलशर्मणे वै ॥१॥
इत्याशीर्वादः। श्रीनाभेयं जिनं वंदे वृषतीर्थप्रवर्तकम् । अजितं निर्जिताशेषकर्माणं च जगद्गुरुम् ॥१॥ नौनांतरीपनिकरैः परितः परीतः स्वर्णाचलच्छलधृतातपवारणोऽसौ । गंगौघचामरसुवीजित एष जंबूद्वीपोऽधिराज इव राजति मध्यवर्ती ॥ २ ॥ तत्राद्धेदसमाकारं क्षेत्रं स्याद्भरताहयम् । उत्सर्पिण्यवसर्पिण्योर्घटीयंत्रमिवास्पदम् ॥३॥ गंगासिंधुनदीभ्यां च षट्वंडीकृतविग्रहम् । विजयाई गं भित्वा गताभ्यां लवणांबुधौ ॥४॥ द्विरुक्ता सुषमाद्या स्याद्वितीया सुषमा मता। सुषमा दुःषमान्तान्या सुषमाता च दुःषमा ॥५॥ १ द्वीपान्तरीपनिकरैः परितः परीतः स्वर्णाचलच्छलघृतातपवारणोऽसौ । गंगौघचामरविराजित एष जम्बूद्वीपोधिराज इव राजति मध्यवर्ती ॥ लाटीसंहितायां १-७। २ सर्वत्र । ३ व्याप्तः। ४ पर्वतं ।