________________
जम्बूस्वामिचरिते
अथ साधूनसाधूश्च प्रतिविज्ञापयाम्यहम् । अत्र भ्रान्तेः प्रमादावा क्षमध्वं स्खलिते मयि ॥ १४२ ॥ मृदृक्त्या कथितं किंचिद्यन्मयाप्यल्पमेधसा । स्वानुभूत्यादि तत्सर्वं परीक्ष्योद्धर्तुमर्हथ ॥ १४३ ॥ इत्याराधितसाधूक्तिहदि पंचगुरून् नयन् । जम्बूस्वामिकथाव्याजादात्मानं तु पुनाम्यहम् ॥ १४४ ॥ सोऽहमात्मा विशुद्धात्मा चिद्रूपो रूपवर्जितः। अतः परं य(च) का संज्ञा सा मदीया न सर्वतः ।। १४५ ।। यज्जानाति न तन्नाम यन्नामापि न बोधवत् । इति भेदात्तयो म कथं कर्तृ नियुज्यते ।। १४६ ।। अथासंख्यातदेशित्वाच्चैकोऽहं द्रव्यनिश्चयात् । नाम्ना पर्यायमात्रत्वादनंतत्वेऽपि किं वदे ।। १४७ ।। धन्यास्ते परमात्मतत्वममलं प्रत्यक्षमत्यक्षतः साक्षात्स्वानुभवैकगम्यमहसां विदंति ये साधवः । सांद्र सज्जतया न मज्जनतया प्रक्षालितांतर्मलास्तत्रानंतमुखामृताम्बुसरसीहंसाश्च तेभ्यो नमः ।। १४८ ।। इतिश्रीजम्बूस्वामिचरिते भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्वाहादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते
साधुपासात्मजसाधुटोडरसमभ्यर्थिते कथाऽमुखवर्णनो नाम प्रथमः सर्गः ।