________________
कथामुखवर्णनम्
कथं चैतत्कथावृत्तं कथयध्वमाविस्तरात् । यथा बालेरपि प्रायो वाच्यं स्याल्लघुमक्तितः ॥ १३१ ॥ इत्युक्त्वा युक्तितोऽभिज्ञः स्थितो वाचंयमीच सः। साध साधुभिराम्नातं साधो मूक्तिमिदं त्वया ॥ १३२॥ ततः शीघ्रमुपज्ञज्ञो मल्लः प्रोवाच मिष्टवाक् । मध्येसभं गुरूणां वा कृपया लालितो यतः॥ १३३ ।। सर्वेभ्योपि लघायांश्च केवलं न क्रमादिह । वयसोऽपि लघुर्बुद्धो गुणैानादिभिस्तथा ।। १३४ ।। गुरोरनुग्रहं ज्ञात्वा सवैरादशितस्त्वयम् । अन्यथा तादृशो रंकः कथं वाचालतां दधौ ॥ १३५ ।। मृगारिरिति नाम्ना स्यादुत्कर्षो न गजद्विषाम् । अत्र दोषावतारेऽपि महत्त्वं महतां कियत् ॥ १३६ ।। किं तत्र प्रश्रयेनेह ये निसर्गाच्च सज्जनाः। धाराधरायते येषां कृपाम्बुशिशिरं वचः॥ १३७॥. पवित्रीकुरुते विश्वं निर्वापयति तत्तपः। पुण्यसस्यादिकं सूते तदास्तां हृदि मेनिशम् ।। १३८ ॥ दुर्जनोऽप्यधमो वा तद्विक्रियायै स दृष्टधीः । यतोऽप्यनुद्धते नम्र वक्रः सन्मानितोऽपि च ।। १३९ ॥ भवेत्साधुरसाधुवो कृतं चिंतनयानया। स्वेष्टं सुखावहं कार्य सर्वः स्वार्थ समीहताम् ॥ १४० ।। यदि संति गुणा वाण्यामत्रौदार्यादयाः क्रमात् । साधवः साधु मन्यन्ते का भीतिः शठविद्विषाम् ।। १४१॥ १ शास्त्रज्ञः । २ शीतलं करोति । ३ अलम् ।