________________
जम्बूस्वामिचरिते
शुभे ज्येष्ठे महामासे शुक्ल पक्षे महोदये । द्वादश्यां बुधवारे स्याद् घटीनां च नवोपरि ॥ १२० ।। परमाश्चर्यपदं पूतं स्थानं तीर्थसमप्रभम् । श्वभ्रं रुक्मगिरेः साक्षात्कूटं लक्षमिवोच्छ्रितम् ।। १२१ ॥ पूजया च यथाशक्ति मूरिमंत्रैः प्रतिष्ठितम् । चतुर्विधमहासंघं समाहूयात्र धीमता ॥ १२२ ।। ततोऽप्याशीर्वचः पूर्व परमानंदशालिनाम् । गुरुणा स्वेन दत्तानि दधौ कुसुमानि मस्तके ॥ १२३ ॥ ततोऽधिवर्द्धयामास धोत्साहः सुदर्शनात् । यथेन्दुदर्शनाद्वार्द्धिर्वर्धते पयसाधिकम् ।। १२४ ॥ अथ मध्येसभं स्थित्वा कुड्मलीकृतकरद्वयम् । पृच्छति स्म स शुश्रूषुः सर्वमेतत्कथानकम् ॥ १२५ ॥ यूयं परोपकाराय बद्धकक्षा महाधियः। उत्तीर्णाश्च परं तीरं कृपावारिमहोदधेः॥१२६ ।। ततोऽनुग्रहमाधाय बोधयध्वं तु मे मनः । जम्बूस्वामिपुराणस्य शुश्रूषा हृदि वर्तते ॥ १२७ ॥ कथं श्रेयोऽर्जितं तेन कथं प्राप्तं भवांतरम् । कथं केवलमुत्पाद्य मुलब्धं मुखमव्ययम् ॥ १२८ ॥ कथं विद्युञ्चरो नाम्ना तन्निमित्तादभून्मुनिः। तेन सार्द्ध मुनीनां स्याच्छतं पंच जितेन्द्रियम् ॥१२९ ॥ दैवं महोपसर्ग हि समाधाय सहिष्णवः। बभूवुस्ते महात्मानो न स्खलेयुः समाधितः॥१३० ॥