________________
कथामुखवर्णनम् कषायादिषु दुर्थ्यानवंचनार्थ तदर्थवान् । अर्हत्पूजादिकं चेच्छेदाहानादिविधेः क्रमात् ॥ १०९ ॥ एकाक्ष्यादिषु पंचाख्यपर्यन्तेषु च जंतुषु । समता स्यात्स्वतस्तस्य यः स्वयं दुःखभीरुकः ॥११० ॥ हिंसादेविरतिः प्रोक्तं व्रतं तद्विविधं मतम् । देशतः सर्वतो धत्ते श्रावकोऽणु यतिमहत् ॥ १११ ॥ तल्लक्षणं तु संक्षेपाक्ष्यमाणं यथागमम् । नात्र विस्तरतः प्रोक्तं हेतोः संबन्धमात्रतः ॥११२ ॥ यत्फलं चास्य धर्मस्य महेन्द्रादिमहोदयः। सर्व पलालवल्लभ्यं धान्यार्थिनः कुटुंबिनः॥११३ ॥ ज्ञातधर्मफलः सोऽयं स्तूपान्यभिनवत्वतः। कारयामास पुण्यार्थ यशः केन निवार्यते ।। ११४ ॥ यशःकृते धनं तेनः केचिद्धर्मकृतेऽर्थतः । तद्द्यार्थमसौ दधे यथा स्वादु महौषधम् ॥११५ ॥ शीघ्रं शुभदिने लग्ने मंगलद्रव्यपूर्वकम् । सोत्साहः स समारंभं कृतवान् पुण्यवानिह ।। ११६ ॥ ततोऽप्येकाग्रचित्तेन सावधानतयानिशम् । महोदारतया शश्वन्निन्ये पूर्णानि पुण्यभाक् ॥ ११७ ॥ शतानां पंच चापैकं शुद्धं चाधित्रयोदश । स्तूपानां तत्समीपे च द्वादश द्वारिकादिकम् ।। ११८ ॥ संवत्सरे गताब्दानां शतानां षोडशं क्रमात् । शुद्धस्त्रिंशद्भिरब्दैश्च साधिकं दधति स्फुटम् ॥ ११९ ॥ १ धान्यस्य तुषः । २ टोडरः । ३ विस्तारयामासुः ।