________________
१८
जम्बूस्वामिचरिते
पंचमी दुःषमा ज्ञेया समा पष्टयतिदुःषमा । भेदा इमेऽवसर्पिण्या उत्सर्पिण्या विपर्ययः ॥ ६ ॥ उत्सर्पिण्यवसर्पिण्यौ कालो सांतर्भिदाविमौ । स्थित्युत्सवसभ्यां लब्धान्वर्थाभिधानकौ ॥ ७ ॥ कालचक्रपरिभ्रांत्या षट्समाः परिवर्त्तनैः । तावुभौ परिवर्त्तते तामिस्त्रेत रपेक्षवत् ॥ ८ ॥ पुरा स्यामवसर्पिण्यां क्षेत्रेऽस्मिन् भरताहये । मध्यमं खंडमाश्रित्य प्रथते प्रथमा सम ॥ ९ ॥ सागरोपमकोटीनां कोटी स्याच्चतुराहता । तस्य कालस्य परिमा तदा स्थितिरियं मता ॥ १० ॥ देवोत्तरकुरुक्ष्मासु या स्थितिः समवस्थिता । सा स्थितिभरते वर्षे युगारंभे स्म जायते ।। ११ ॥ तदा स्थितिर्मनुष्याणां त्रिपल्योपमसंमिता । षट्सहस्राणि चापानामुधी वपुषः स्मृतः ॥ १२ ॥ वज्रास्थिबंधनाः सौम्याः सुंदराकारचारवः । निष्टप्तकनकच्छाया दीव्यन्ते ते नरोत्तमाः ॥ १३ ॥ मुकुटं कुण्डलं हारी मेखला कटकांगदौ । केयूरं ब्रह्मसूत्रं च तेषां शश्वद्विभूषणम् ॥ १४ ॥ एते पुण्योदयोद्भूतरूपलावण्यसंपदः । ररम्यंत चिरं स्त्रीभिः सुरा इव सुरालये ।। १५ ।। महासत्त्वा महाधैर्या महोरस्का महौजसः । महानुभावास्ते सर्वे महीयंत महोदयाः ।। १६ ।
१ सार्थकाभिधानौ । २ वर्षाणि । ३ कृष्णशुक्लपक्षौ । ४ संज्ञा । ५ निरंतरं । ६ महास्कंधाः ।