________________
कथामुखवर्णनम्
कचित्पंच कचिच्चाष्टौ कचिद्दश ततः परम् । कचिदिशतिरेव स्यात्स्तूपानां च यथायथम् ॥ ८७ ॥ तत्रापि चिरकालत्वे द्रव्याणां परिणामतः । स्तूपानां कृतकत्वाच जीर्णता स्यादवाधिता ।। ८८॥ तां दृष्ट्वा स धर्मात्मा नव्यमुद्धर्तुमुत्सुकः । स्याद्यथा जीर्णपत्राणि वसंतःसमयो (वसंतसमये) नवम् ।।८।। मनो व्यापारयामास धर्मकार्य स बुद्धिमान् । तावद्धर्मफलास्तिक्यं श्रद्दधानोऽवधानवान् ।। ९० ॥ अस्त्यात्मानादिवद्धश्च तत्क्षयान्मोक्षभाग्भवेत् । तत्रानंतसुखावाप्तिर्भवेत्क्लेशपरिक्षयात् ।। ९१ ॥ स यावता भवेल्लाभो भूतपूर्वः सुदुष्करः। काललब्ध्यादिसामयां सुसाध्योऽपि महात्मनाम् ।। ९२ ।। तावदावश्यमेवैतद्धर्म कार्य मनीषिभिः । सत्यां सम्यक्त्वसंप्राप्तौ भाविप्राप्तावयं क्रमः ॥ ९३ ।। येषां सा तु भवेन्नात्र न भूता न भविष्यति । तेषां निंद्यात्मनां चात्र का कथा नित्यदुःखिनाम् ।। ९४ ।। तथापि धर्ममाहात्म्याक्रियामात्रानुरंजनात् । आस्कंदति महाभोगान् तेऽपि ग्रेवेयकं मुखम् ॥ ९५॥ स्वायुरंते ततश्च्युत्वा तिर्यगादिगतिष्वमी। वराकास्तीबदुःखाताः पर्यटन्ति यतस्ततः ॥ ९६ ॥ तन्नमोऽस्तु सुधर्माय यतः सौख्यं निरंतरम् । धिक्तत्पापापरं नाम मिथ्यात्वं कमशमभित् ।। ९७ ॥
१ निकटवान् । २ कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गलपरिवर्तनाख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिक । इति इयमेका काललब्धिः । ३ अनुरागात् ।