________________
१०
जम्बूस्वामिचरिते
वर्द्धतां मातुरंकस्थस्तृतीयो रुपमांगदः । शिशुरप्यंशुमालाभिर्महानेव मणिर्यथा ॥ ७७ ॥ एतेषां बन्धुवर्गाणां मध्ये श्रीसाधुटोडरः । व्यावर्णितोऽपि यः पूर्व संवन्धः सूच्यतेऽधुना ॥ ७८ ।। अथैकदा महापुर्या मथुरायां कृतोद्यमः । यात्रायै सिद्धक्षेत्रस्थचैत्यानामगमत्सुखम् ।। ७९ ।। तस्याः पर्यन्तभूभागे दृष्टा स्थानं मनोहरम् । महर्षिभिः समासीनं पूर्त सिद्धास्पदोपमम् ॥ ८॥ तत्रापश्यत्स धर्मात्मा निःसहीस्थानमुत्तमम् । अंत्यकेवलिनो जम्बूस्वामिनो मध्यमांदियम् ।। ८१ ।। ततो विद्युञ्चरो नाम्ना मुनिः स्यात्तदनुग्रहात् ।। अतस्तस्यैव पादान्ते स्थापितः पूर्वमूरिभिः ।। ८२ ।। ततः केपि महासत्वाः दुःखसंसारभीरवः । सन्निधानं तयोः प्राप्य पदसाम्यं समं दधुः ॥ ८३ ॥ उक्तं च“कालाई लद्धिणियडा जह जह संभवइ भव्यपुरिसस्स । तह तह जायइ नूनं सुसब्बसामग्गिमोक्खई ।। ८४॥" ततो धृतमहामोहा अखंडव्रतधारिणः । स्वायुरंते यथास्थानं जग्मुस्तेभ्यो नमो नमः ॥ ८५ ॥ ततः स्थानानि तेषां हि तयोः पार्वे मुयुक्तितः। स्थापितानि यथाम्नायं प्रमाणनयकोविदैः ।। ८६ ॥
१ 'नशियों ' इति । २ 'मध्यमादिकं ' इति वा पाठः । ३ काललब्धिनियता यथा यथा संभवति भव्यपुरुषस्य । तथा तथा जायते नूनं सुसर्वसामग्रीमोक्षार्थम् ॥