________________
द्वितीयः परिच्छेदः
*जीवाजीवावाश्रववन्धौ किल संवरच निर्जरणं । मोक्षस्तत्वं सम्यग्दर्शनसद्बोधविषयमखिलं स्यात् ॥ १ ॥ * आश्रवन्धांतर्गतं पुण्यं पापं स्वभावतो न पृथक् । तस्मान्नोद्दिष्टं खलु तत्त्वदृशा सूरिणा सम्यक् ॥ २ ॥ जीवैमजीवं द्रव्यं तंत्र तदन्ये भवंति मोक्षान्ताः । चित्र्षुद्गल परिणामाः केचित्संयोगजाश्च विभजनजाः ॥ ३ ॥ द्रव्याण्यनाद्यनिर्धनानि सदात्मकानि
स्वात्मस्थितानि सदकारणवन्ति नित्यम् ।
१ आश्रवश्च बन्ध तयोर्मध्येऽन्तर्गतं मध्यगतमिति आश्रवबन्धांतर्गतम् । २ ज्ञानादिभेदेनानेकप्रकारा चेतना सा लक्षणं यस्यासौ जीवस्तद्विपरीतोऽजीवः । ३ जीवाजीवयोः । ४ जीवाजीवाभ्यामन्ये । ५ शुभाशुभकर्मागमद्वारलक्षण आश्रवः, आत्मनः कर्मणश्च परस्परप्रदेशानुप्रवेशलक्षणो बन्धः । आश्रवनिरोधलक्षणः संवरः । एकदेशकर्मसंक्षयलक्षणो निर्जरा । सर्वकर्मविप्रमोक्षो मोक्षः । ६ अन्ये जीवपुद्गलयोः स्वभावाः | ७ आश्रवबंधमुख्याः संयोगजाः पुनः केचित् संवरनिर्जरामोक्षा विभजनजाश्चेति भावः । ८ यथास्वं पर्यायैर्ब्रयन्ते द्रवन्ति वा तानि द्रव्याणि । ९ आयन्तरहितानि । १० सत्सत्त्वं आत्मा स्वरूपो येषां तानि सदात्मकानि । ११ स्वस्यात्मनि स्थितानि साध्यवस्थितानीत्यर्थः ।
* एतौ ठोको जम्बूस्वामिचरिते ( ३- ११, १२) अपि लभ्येते । *आश्रवबन्धवपुरिदं इत्यपि ।