________________
अध्यात्मकमलमार्तण्डे
एकत्र संस्थितवपूंष्यपि भिन्नलक्ष्म
२५०
लक्ष्याणि तानि कथयामि यथास्वैशक्ति ॥ ४ ॥
।
गुणपर्ययवद्द्रव्यं विगमोत्पादध्रुवत्ववच्चापि । सल्लक्षणमिति च स्याद्वाभ्यामेकेर्न वस्तु लक्ष्येद्वा ॥ ५ ॥ अन्वयिनः किल नित्या गुणाश्च निर्गुणावयवो (वा) अनंतांशाः । द्रव्याश्रया विनाशप्रादुर्भावाः स्वशक्तिभिः शश्वत् ॥ ६ ॥ सर्वेष्वविशेषेण हि ये द्रव्येषु च गुणाः प्रवर्तते ।
ते सामान्यगुणा इह यथा सदादि प्रमाणतः सिद्धम् ॥ ७ ॥ तस्मिन्नेव विवक्षितवस्तुनि मग्ना इहेदमिति चिज्जाः । ज्ञानादयो यथा ते द्रव्यप्रतिनियमिनो विशेषगुणाः ॥ ८ ॥ व्यतिरेकिणो ह्यनित्यास्तत्काले द्रव्यतन्मयाचापि । ते पर्याया द्विविधा द्रव्यावस्थाविशेषधर्माशाः ॥ ९ ॥ एकानेकद्रव्याण्येकानेकप्रदेश संपिण्डः । द्रव्यजपर्यायोऽन्यो देशावस्थांतरे तु तस्माद्धि ।। १० ॥
१ षद्रव्याण्येकत्र स्थितान्यपि कदाचिन्निजस्वरूपं न जहन्ति । २ स्वशक्तिमनतिक्रम्येति यथास्वशक्ति । ३ गुण्यते विशिष्यते पृथक्क्रियते द्रव्यं द्रव्यांतराद्यैस्ते गुणाः, पर्ययणं पर्ययः, स्वभावविभावरूपतया परिप्राप्तिरित्यर्थः । गुणाञ्च पर्ययाश्च गुणपर्यथाः तेऽस्य संतीति गुणपर्ययवद्द्रव्यमिति । अत्र मतुप्प्रत्ययो कथंचिद्भेदे द्रष्टव्यः । ४ द्रव्यस्य स्वां जातिमजत उभयनिमित्तवशात् भावान्तरावाप्तिरुत्पादनमुत्पादः । तथा पूर्वभावविगमनं व्ययः । अनादिपारिणामिकखभावेन व्ययोदयाभावात् ध्रुवति स्थिरीभवतीति ध्रुवस्तस्य भावो धौव्यं ध्रुवत्वं वा । ५ पूर्वोक्ताभ्यां लक्षणाभ्याम् । ६ द्वयोर्मध्येऽन्यतरेण वा । ७ गुणेभ्यो निष्क्रांता इति निर्गुणाः, निर्गुणा अवयवाः शक्त्यंशा येषां ते निर्गुणावयवाः । ८ अनन्ता अशा अविभागप्रतिच्छेदा येषां ते । ९ द्रव्यमाश्रयो येषां ते ।