________________
२३८
जम्बूस्वामिचरिते
पठनीयं पाठनीयं शास्त्रमेतन्मुनीश्वरैः । जंबूस्वामिचरित्रायं रोमांचजननक्षमम् ॥ १७५ ॥ क्षेतव्यं शारदे देवि यदत्र गदिते मया । न्यूनाधिकं भवेत्किंचित्प्रमादादांतितोऽथवा ॥ १७६ ॥ जंबूस्वामी जिनाधीशो भूयान्मंगलसिद्धये । भवतां भुवि भो भव्याः श्रीवीरांतिमकेवली ॥ १७७ ॥ इति श्रीजम्बूस्वामिचरिते भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यर्थिते मुनिश्रीविद्युच्चरसर्वार्थसिद्धिगमनवर्णनो नाम त्रयोदशः पर्वः॥
इति जम्बूस्वामिचरितम् समाप्तम् ॥