________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२३७
त्रयस्त्रिंशत्समुद्रायुर्भुक्ते सौख्यं निरंतरम् |
दुर्लभं चाल्पपुण्यानां सर्वे वाचामगोचरम् ।। १६६ ॥ स्वायुरंते ततश्च्युत्वा संप्राप्य चरमं वपुः । केवलज्ञानमुत्पाद्य गंतातः परमां गतिं ।। १६७ ॥ नमस्तस्यै नमस्तस्मै नमोऽनंतसुखात्मने । नमश्वानंतवीर्याय केवलज्ञानभानवे ।। १६८ ।। शतानां पंचसंख्याकाः प्रभवादिमुनीश्वराः । अंते सल्लेखनां कृत्वा दिवं जग्मुर्यथायथं ॥ १६९ ॥ जंबूस्वामिजिनेशस्य चरित्रमिदमुत्तमं । जैनागमानुसारेण प्रोक्तमल्पधिया मया ॥ १७० ॥ यदत्र स्खलितं किंचित्प्रमादात्शारदे मम । स्वरव्यंजनसंध्यादि तत्क्षंतव्यं जगन्नुते ।। १७१ ॥ अपारे चातिगंभीरे महाशब्देऽतिदुस्तरे । को न मुह्यति शास्त्राब्धौ विद्वानपि महीतले ।। १७२ ॥ जंबुस्वामिवदुत्तमं प्रकुरुते भूमौ तपो यो जनः । पंचाक्षारिविशालकामगहन श्रेणीषु दावोपमं ||
स स्यात्सौख्यनिकेतनं खलु बुधा ज्ञात्वेति चित्तेऽनिशं । कुर्वीध्वं करुणापराः शिवसुखे वांछास्ति रम्या यदि ॥ १७३ ॥ ये शृण्वंति चरित्रमुत्तममिदं श्रीजंबुनाम्नो मुनेः । नानाचित्रकथाविभूषितमतिप्रावीण्यसंबोधनं ॥ तेषां स्याद्वहुपुण्यकर्मनिपुणा बुद्धिः स्वयंभूरिव । त्यक्त्वाशेषभवप्रमृतसुखसार्थस्याशु धर्मास्पदम् ।। १७४ ॥