________________
२३६
जम्बूस्वामिचरिते
द्विधा सोऽप्याश्रमाद्भेदात् गृहस्थशमिनोर्द्वयोः । त्रिधा सद्दर्शनज्ञानचारित्रोदेशभेदतः ॥ १५६ ॥ दशधापि ततो धर्मस्तथालक्षणसंभवात् । उत्तमादौ क्षमा ज्ञेया मार्दवार्जवसत्यवाक् ॥ १५७ ॥ शौचं संयम एवानुतपस्त्यागस्तथोत्तमम् । आकिंचन्यमथो ज्ञेयं ब्रह्मचर्ये सुदुष्करं ॥ १५८ ॥ धर्मोऽमुह पाथेयं सध्व्यङ् (सध्यङ् ) नित्योपकारकं । पिता माता च बंधुश्च देवश्चाप्यंगिनामिह ॥ १५९ ॥ मत्वेति धीधनैः कार्या धर्मबुद्धिः सनातनी ।
न हि कालकलः कापि नेतव्या स्वतृषोज्झिता ॥ १६० ॥ सर्वत्रापि दिशः शून्या विना धर्मेण प्राणिनाम् । मत्वैतत्स्वहितं कार्य वावदूकतयाप्यलम् ॥ १६१ ॥ ॥ इति धर्मानुप्रेक्षा ॥
॥ इति द्वादशानुप्रेक्षाः ॥
एवं चिंतयतस्तस्य हृदि द्वादश भावनाः । अजातमिव तत्रासीद्धोरं चाप्युपसर्गकम् ॥ १६२ ॥ देहाद्भिन्नं चिदात्मानं स्वानुभूत्यैकमात्रतः । विद्युच्चरः समालंब्य जयति स्म परीषहान् ।। १६३ ॥ व्यतीते चोपसर्गेऽथ मुनिर्विद्युच्चरो महान् । व्यभ्रे व्योम्नि यथादित्यो तेजःपुंज इवा (व) द्युतः ॥ १६४ ॥ प्रातःकालेऽथ संजाते प्रत्यसल्लेखनाविधौ । चतुर्विधाराधनां कृत्वागमत्सर्वार्थसिद्धिके ॥ १६५ ॥