________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२३५
तथोत्तरं सुदुष्पाप्यं प्राप्यते दैवयोगतः । तत्रापि विषयांधानां धर्मबुद्धिस्तु दुर्लभा ॥१४८॥ . प्राप्तायां धर्मबुद्धौ च दुर्लभं धर्मपाटवं । प्राप्त तस्मिन्नपि प्रायो दुर्लभा गुरुदेशना ॥ १४९ ॥ प्राप्तौ तस्यां कपायाणां निग्रहश्चातिदुर्लभः ।। सति यस्मिन् भवत्येव संयमः कर्मनाशकृत् ।। १५०॥ लब्धे तस्मिन्नपि प्राज्ञ ( प्रज्ञा? ) काललब्धिवशीकृतः। शुद्धचैतन्यरूपस्य बोधिलाभस्तु दुर्लभः ।। १५१॥ उक्तं च"खओबसमविसोही देसणपाओगकरणलद्धी य । चत्तार वि सामण्णा करणं सम्मत्तजुत्तस्स ॥१॥" इदमत्र हि तात्पर्य विज्ञेयं परमार्थिभिः। दुर्लभे बोधलाभेऽस्मिन् प्रमादो दस्युरेव हि ।। १५२ ।।
॥ इति बोधिदुर्लभानुप्रेक्षा ॥ धर्मशब्दस्त्वनेकार्थेऽप्येकार्थ प्रत्ययत्यहो । यस्मादुकै पदे धत्ते जीवं नीचे पदादपि ॥ १५३ ॥ धर्मो वस्तुस्वभावः स्यात्कर्मनिर्मूलनक्षमः । तच्चैव शुद्धचारित्रं साम्यभावचिदात्मनः ॥ १५४ ॥ व्यवहारेण तत्प्रोक्तो धर्मः संयमसंज्ञकः । सर्वप्राणिदयामृलस्तपः शीलसमन्वितः ॥ १५५॥ १ क्षायोपशमिकविशुद्धी देशनाप्रायोग्यकरणलब्धयश्च । बतस्रोऽपि सामान्याः करणं सम्यक्त्वयुक्तस्य ।
गोम्मटसारजीवकांडे ६५० ॥