________________
२३४
जम्बूस्वामिचरिते
कचित्सौख्यं कच्चिदुःखं मध्यलोके क्वचिवयम् । प्राप्नुवंति नृतियेचः पुण्यपापवशीकृताः ॥ १३६ ॥ लोकाग्रे शाश्वतं धाम मनुष्यक्षेत्रसंमितम् । अनंतसुखसंपन्नाः सिद्धा यत्र वसंत्यहो ॥ १३७ ॥ एतल्लोकत्रयं ज्ञात्वा तन्मूर्द्धस्थं शिवालयं । हत्वा मोहं दृगाद्यैश्च सोधयंतु महर्षयः॥ १३८ ।
॥ इति लोकानुप्रेक्षा॥ बोधिर्बोधनमित्युक्तमनन्यमनसात्मनः। दुर्लभा सा हि जीवानां बोधिदुर्लभ इष्यते ॥ १३९ ।। अनंतानंतजीवानां समानादिवनस्पती । निःसरंति ततः केचिद्गतेऽनंतेऽप्यनेहसि ॥१४॥ ततः कथंकीचदै पृथ्वीकायिकादिषु ॥ १४१॥ उत्पद्यते तथा दैवात् दुर्गती लब्धसंनिधिः । ततः कृच्छ्रतमात्ते हि लाघवाद दुष्टकर्मणाम् ॥ १४२ ।। द्वीन्द्रियादिषु जायंते तिरश्चामिव दुर्गतौ । पर्याप्तत्वं ततः कृच्छ्रात्प्राप्यते प्राणिभिः कचित् ॥ १४३ ।। प्रायोऽपर्याप्तका जीवा संत्यत्र बहवो यतः । तेषामुल्लासमात्रेण जन्मानि मरणानि च ।। १४४ ॥ संख्यायाष्टादशावश्यं जायंते दुःखजान्यहो । अतस्ततोऽपि निःसृत्य कृच्छ्रात्पंचेन्द्रियोऽभवत् ॥ १४५॥ ततः कथंकथंचिदै संज्ञी भवति मानवः । तत्राप्यार्यखंडेऽस्मिन्नुत्पत्तिर्दुर्लभा नृणाम् ।। १४६ ।। तत्राप्युच्चैःकुले जन्म दुर्लभं जैनधर्मणि। प्राप्तेऽप्यायुः सुसंपूर्ण वपुरारोग्यमेव च ॥ १४७ ॥