________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२३३
अयमेकः सदा सेव्यः संवरो मोक्षसाधनम् । अथ तत्राविनाभूतः शुद्धः सेव्यश्चिदात्मकः ॥ १२५ ॥
॥ इति संवरानुप्रेक्षा ॥ निर्जरापि द्विधा ज्ञेया भावद्रव्यविभेदतः। अपि चैकादशस्थानः ख्याताः संख्यगुणक्रमाः॥ १२६ ॥ आत्मनः शुद्धभावेन गलत्येतत्पुराकृतम् । वेगाद्धक्तरसं कर्म सा भवेद्भावनिर्जरा ।। १२७ ।। आत्मनः शुद्धभावस्य तपसोऽतिशयादपि । यः पातः पूर्वबद्धानां कर्मणां द्रव्यनिर्जरा ॥ १२८ ॥ यथाकालं समागत्य दत्वा कर्मरसं पचेत् । निर्जरा सर्वजीवानां स्यात् सविपाकसंज्ञकः ।। १२९ ।। इयं मिथ्यादृशामेव यदा स्याद्वंधपूर्विका ।। मुक्तये न तदा ज्ञेया मोहोदयपुरःसरा ॥ १३०॥ सविपाका विपाका वा सा स्यात्संवरपूर्विका। निर्जरा सुदृशामेव नापि मिथ्यादृशां कचित् ॥ १३१ ॥ निर्जरालक्षणं ज्ञात्वा मोक्षसिद्धिमभीप्सुभिः। सर्वारंभेण शुद्धात्मा सेवितव्यस्तदंगतः ॥ १३२ ॥
॥ इति निर्जरानुप्रेक्षा ॥ अधो वेत्रासनाकारो मध्ये स्याज्झल्लरीनिमः। मृदंगसदृशश्चाग्रे लोकस्येति त्रिधा स्थितिः ॥ १३३ ॥ पापास्तु पापपाकेन पयंते छेदनादिभिः । सप्तश्वभ्रेष्वधोभागे नारका नारकैः सह ॥ १३४ ॥ केचित्पुण्योदयेनेह स्वर्गेषु सुखसंपदः । मुंजतो दिव्यभोगांश्च सागरावधिजीविनः ॥ १३५॥