________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
॥ इति अन्यत्वानुप्रेक्षा ॥
अशुचिः सर्वदेहोऽयं शुक्रशोणितयोनिजः । असृग्मांसवसाकीर्णः का कथा वाह्यवस्तुषु ।। ९१ ॥ वर्चोमूत्रसमाकीर्ण चर्मवद्धास्थिसंचयम् । भ्रातर्वपुर्विजानीहि वीभत्सुक्षयितापकं ।। ९३ ।। यत्किचित्सुंदरं वस्तु पूतं वा यन्निसर्गतः । वपुः संसर्गतो नूनं क्षणादशुचितां व्रजेत् ।। ९४ ॥ जले जंबालवन्नूनं कालुष्येनोपलक्षिताः । सर्वे रागादयो भावा हेयाश्चाशुचिमंदिराः ।। ९५ ॥ रागसद्भावतो नूनं त्रिदशेऽपि दिवौकसाम् । शुचिः कुतस्तनी तेषां दृङ्मलैर्दूषितात्मनाम् ।। ९६ ॥ अतश्चैकः स शुद्धात्मा चिद्रूपो रूपवर्जितः । त्रिकालेऽपि शुचिः साक्षात् स्वतोऽनंतगुणात्मकः ॥ ९७ ॥ यदि वा दर्शनज्ञानचारित्राणि शुचीन्यहो । सम्यक्पदोपलक्ष्याणि तन्मलापगमादितः ॥ ९८ ॥ अशुचित्वं परित्यज्य शुचिग्रह्या मनीषिभिः । चैतन्यलक्षणः सोऽयमयमर्थो निरूपणे ।। ९९ ।।
॥ इत्यशुचित्वानुप्रेक्षा ॥
आश्रवः स द्विधा प्रोक्तो भावद्रव्यविभेदतः । तत्र रागादयो भावाः कर्मागमनहेतवः ॥ १०० ॥ तस्माद्भावाश्रवो ज्ञेयो रागभावः शरीरिणाम् । तद्धेतोः कर्मरूपेण भावो द्रव्याश्रवः स्मृतः ॥ १०१ ॥
१ शैवालं
1
२२९