________________
२२८
जम्बूस्वामिचरिते
जीवात्पंचेन्द्रियाणीह भिन्नलक्ष्माणि निश्चयात् । मनःकायवचांसीव कर्मजत्वां (न्या) विशेषतः ॥ ८१ ॥ ये च रागादयो भावा मोहकर्मोदयात्मकाः। चिदाभासाश्च ते सर्वे भिन्नाश्चैतन्यरूपतः ॥ ८२॥ जीवस्थानगुणस्थानबंधस्थानान्यपि क्रमात । योगस्थानानि भिन्नानि स्वात्मनः सर्वथाप्यतः॥ ८३ ॥ बंधाद्यध्यवसायानां स्थानानीह बहूनि च । भिन्नलक्षणलक्ष्यत्वादन्यानीव चिदात्मनः ॥ ८४ ॥ धर्माधर्मनभःकालज्ञेयद्रव्याण्यनंतशः। बिंबितान्यपि तज्ज्ञप्त्यै भिन्नान्यात्मचतुष्टयात् ।। ८५॥ मूर्त्तद्रव्याणवस्तेऽपि तुल्यदेशाः स्थिताः स्वतः। एकक्षेत्रावगाहित्वे ज्ञानादन्ये स्वभावतः ।। ८६॥ वर्गश्चापि यथा लक्ष्यस्त्रयोविंशतिवर्गणाः । अनात्मीयाश्च ते सर्व स्पर्द्धका गुणहानयः ॥ ८७॥ ज्ञानाद्यावृत्तिरूपाणि कर्माण्यष्टाप्यसंख्यया । नोकर्माण्यपि भिन्नानि चिद्रूपैकस्वरूपतः ॥ ८८ ॥ क्षायोपशमिका भावा मतिज्ञानादयः क्रमात् । ते सर्वेऽप्यस्य जीवस्य न संतीति विनिश्चयात् ।। ८९ ।। अलं वा बहुभिर्जल्पैरालकोलाहलाकुलैः । मुक्त्वा चिन्मात्रमात्मानमनादेयमतः परम् ॥ ९॥ सर्वमन्य परिज्ञाय योऽनन्यशरणं व्रजेत् । अचिराल्लभते मोक्षमभिप्रेतमिदं मम ॥९१॥