________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२२५
जघन्यस्थितिवर्षाणां यावंतः समयाः स्मृताः। तावंतो वारानसको ( कृत् ) मृतो जातः पुनः पुनः॥ ५२ ॥ ततः साधिकमेकेन ततोऽप्येकेन साधिकम् । समयेन यदायुः स्याद्वर्तमानं शरीरिणाम् ॥ ५३॥ तदाप्येष क्रमो ज्ञेयो नान्यथा तदतिक्रमात् । क्रमाद्धीनोऽधिकश्चापि नोल्लेख्यः कदाचन ।। ५४ ॥ वर्द्धमानं क्रमादायुः सर्वोत्कर्ष यदा भवेत् । पर्याप्तो भवसंसारो देवनारकयोस्तदा ॥ ५५ ॥ एवं तिर्यग्मनुष्याणां स्थितिरांतर्मुहूर्तिकी । अपकर्षात्तूपकर्षेण त्रिपल्योपमसंमिता ।। ५६ ॥ अथारभ्य जघन्यादा पूर्ववत्समयाधिकम् । पुनर्बध्वा क्रमादायुर्यावतोत्कर्षतां व्रजेत् ॥ ५७ ॥ तावानेकीकृतः सर्वः स युक्तः समवायवान् । उच्यते भवसंसारस्तल्लक्षणविदांवरैः ॥ ५८ ॥ सोऽप्यनेनैव जीवेन संगृहीतो ह्यनंतशः । कृते नित्यनिगोदाद्वा सर्वेणाप्यटता भृशम् ॥ ५९ ॥ भावो जीवस्य पर्यायः परिणामगुणात्मकः । स चाशुद्धश्च शुद्धश्च द्विधा स्यान्नयभागतः ॥ ६०॥ परद्रव्यात्मकं कर्म ज्ञानाद्यावरणं स्वतः। तद्विपाकनिमित्तत्वे जातो शुद्धः स जन्मिनः ।। ६१ ॥ कृत्स्नकर्मक्षये यस्तु भावो जीवस्य निष्क्रियः । स शुद्ध इति विज्ञेयो यथा सौख्यमतीन्द्रियम् ॥ ६२ ॥