________________
जम्बूस्वामिचरिते
तत्रोपाश्रययुक्तित्वादशुद्धे परिवर्त्तनम् । शुद्धे भावे स्वरूपत्वात्तन्नास्ति खरशृंगवत् ॥ ६३ ॥ स्थितेरध्यवसायानां स्थानानीह सुसंख्यया । पतितानि चतुःस्थानैर्लोक संख्यातमात्रतः ॥ ६४ ॥ एवमध्यवसायानामनुभागोचितलक्षणाम् । पतितानि च षट्स्थानैर्लोकासंख्यातमात्रशः ॥ ६५ ॥ लोकसंख्यातमात्राणि योगस्थानानि संख्यया । पतितानि चतुःस्थानैर्वृद्धिहानिक्रमादिति ॥ ६६ ॥ अतश्चैषामनंताः स्युर्भेदास्ते च निरंशकाः । उत्कृष्टोऽनुत्कृष्टश्च जघन्योऽप्यजघन्यकः ॥ ६७ ॥ सर्वा जघन्यादारभ्य यावदुत्कृष्टतां नयेत् । जीवः सर्वानिमान्भावान्भावसंसार इत्ययं ॥ ६८ ॥
२२६
उक्तं च
"पैढमक्खो अंतगदो आदिगदे संकमेदि विदियक्खो । दोष्ण वि गंतूणंतं आदिगदे संकमेदि तदियक्खो ।। १ ।। " कृते नित्यनिगोदाद्वा भवसंसारवद्यतः ।
एषोऽपि भावसंसारः प्राप्तो मंदैरनंतशः ।। ६९ ।। पंचप्रकार संसारं मत्वा मोक्षसुखार्थिनः ।
निःसंसारं निजात्मानं त्रिधाप्याराधयंतु भोः ॥ ७० ॥ ॥ इति संसारानुप्रेक्षा ॥
१ प्रथमाक्ष अन्तगत आदिगते संक्रामति द्वितीयाक्षः । द्वावपि गत्वान्तमादिगते संक्रामति तृतीयाक्षः ॥ गोम्मटसारजीवकांडे गाथा ॥ ४० ॥