________________
जम्बूस्वामिविद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
प्रमाणादागमाच्चापि स्वानुभूतेः समक्षतः । तेषामनित्यसंसिद्धों को विमुह्येत् प्रगल्भधीः ॥ १० ॥
कृत्वावधिं सहस्रांशुरुदेत्यत्र महीतले । कृत्वावधिं तथा जीवा उत्पद्यते चतुर्गतौ ॥ ११ ॥ यथा वृक्षात्फलं पक्कं विश्लिष्टमनुभूतलं । आवश्यकं पतत्येतत्तथा तनुभृतोऽप्यमी ॥ १२ ॥ जीवितं चपलं लोके जलबुदबुदसन्निभम् । रोगैः समाश्रिता भोगा जराक्रांतं हि यौवनम् ॥ १३ ॥ सौन्दर्य च क्षणध्वंसि संपदो विपदंतकाः । मधुबिंदूपमं पुंसां सौख्यं दुःखपरंपरा ॥ १४ ॥ इंद्रियारोग्यसामर्थ्यचलान्यभ्रोपमानि च । इन्द्रजालसमानानि राजसौधधनानि च ।। १५ ।। पुत्रपौत्रकलत्रादि मित्रांधवसज्जनाः ।
संपावच्चपलरूपाश्च दृष्टनष्टा इव क्षणम् ॥ १६ ॥ इत्यध्रुवं जगत्सर्व नित्यश्रात्मा सनातनः । अतः सद्भिर्न कर्त्तव्यं ममत्वं वपुरादिषु ।। १७ ।।
॥ अनित्यानुप्रेक्षा ॥
भ्रमतोऽस्य भवावर्त्ते जंतोर्गतिचतुष्टये । यमारातिगृहीतस्य न कोऽपि शरणं भवेत् ॥ १८ ॥ यथा व्याघ्रगृहीतस्य मृगशावस्य कानने । पुण्योदयादृते कश्चिद्रक्षितुं न क्षमोऽङ्गिनः ॥ १९॥ १ विद्युत् ।
२२१