________________
अथ त्रयोदशः पर्वः ।
भूयात्स शर्मणे जम्बूस्वामी निष्कर्मतां श्रितः । साधुपासांगजस्यास्य तत्र श्रीसाधुटोडर ॥ १ ॥ इत्याशीर्वादः । पार्श्वनाथमहं नौमि हंतारं विघ्नकर्मणाम् । वर्द्धमानं सुनाम्नापि प्रमाणाच्च निजोन्नतम् ॥ १ ॥ अथोपसर्गसंभूतौ ते च विद्युच्चरादयः । मुनयो भावयामासुरिमाः षोडशभावनाः ॥ २ ॥ अनित्या शरणा चैव संसृतेश्वानुचितनम् । एकत्वचिंतनं चैत्रमन्यत्वं च ततः परम् ॥ ३ ॥ अशुच्यास्रवसंज्ञे द्वे संवरो निर्जरा ततः । लोकसंस्था तथा बोधिदुर्लभो धर्म एव च ॥ ४ ॥ संवेगवर्धनाद्यर्थमेषां तत्त्वानुचितनम् । अनुप्रेक्षाः स्मृतास्ताथ द्वादशैवानुपूर्वतः ॥ ५ ॥ ये याता यांति यास्यति यमिनः पदमव्ययम् । द्वादशैताच ताः सर्वा भावयित्वा सुभावनाः ॥ ६॥ अन्यत्वं सर्वमेवैतद्वस्तुजातं चराचरं । वैभाविकस्वभावत्वात्कर्मणां रसपाकसात् ॥ ७ ॥ आफलोदय मेवैतत्कर्मव्रीह्यादिवत्स्वतः । तन्निर्माणं कथं लोके नित्यं भवितुमर्हति ॥ ८ ॥ अतः कर्मोदयाज्जाताः पर्याया वपुरादयः । स्वानुभूत्यैकमात्रत्वाद्भिन्नास्ते क्षणभंगुराः ॥ ९ ॥