________________
२१९
जम्बूस्वामिनिर्वाणगमनवर्णनम्
स्वाध्यायनिरताः केचित्केचिद्ध्यानावलंबिनः । केचित्कर्मविपाकज्ञा तस्थुर्मेरुरिवाचलाः || १४९ ।। धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्विन्वते धर्मेणैव समाप्यते शिवमुखं धर्माय तस्मै नमः | धर्म्मान्नास्ति परः सुहृद्भवभृतां धर्मस्य मूलं दया तस्मिन् श्रीजिनधर्मशर्मनिरतैर्धर्मे मतिर्धार्यताम् ।। १५० ।।
इति श्रीजम्बूस्वामिचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरित
स्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासासुतसाधु टोडरसमभ्यर्थिते जम्बूस्वामिनिर्वाणगमनवर्णनो नाम द्वादशः पर्वः ।