SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिनिर्वाणगमनवर्णनम् २१५ अप्यभिव्यक्तरूपश्च जातजातस्वरूपतः । गुप्तो गुप्तित्रयेणोच्चैर्वाङ्मनोयोगनिग्रहात् ॥ १०५ ।। कषायारिचमूं जेतु बद्धकक्ष इवाबभौ। धृत्वा प्रशमजेः शस्त्रं सन्मुखं योद्धमुद्धतः ॥ १०६ ॥ मन्मथस्य प्रियामारादति मागेव निघ्नता । प्रवारितो भटो मारो हेलया येन निर्जितः ॥ १०७ ।। द्वादशांगमहाविद्यावारिधेः पारगः सुधी । द्रव्यभावादिभेदेन नैकधार्थप्रपंचकः ॥१०८ ॥ एवमष्टादशाब्दानां व्यतिक्रांता इच क्षणं । जम्बूस्वामिनि घोरोग्रं तपः कुर्वति नैकथा ।। १०९ ।। तपोमासे सिते पक्षे सप्तम्यां च शुभ दिने । निर्वाण प्राप सौधर्मो विपुलाचलमस्तकात् ।। ११० ॥ अनंतसुखपाथोधौ निमग्नं बलभूषितम् । अनंतदर्शनज्ञानं तमहं नौमि श्रेयसे ।। १२१ ॥ तत्रैवाहनि यामार्धव्यवधानवति प्रभोः। उत्पन्न केवलज्ञानं जम्बूस्वामिमुनेस्तदा ।। ११२ ॥ नष्टे मोहरिपो ज्ञानदर्शनावरणक्षये । आसीत्पद्मासनस्तस्य ज्ञान वीर्यावृतेः क्षयम् ॥ ११३॥ ततः केवलपूजार्थमाजग्मुत्रिदशालयाः। सोत्साहा सपरीवारा निजद्धादिसमन्विताः ॥ ११४ ॥ प्रणेमुनिःपरीत्याथ स्वामिन त्रिजगद्गुरुम् । उच्चैर्जयजयारावमुच्चरंतोऽमराधिपाः॥११५ ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy