________________
२१२
जम्बूस्वामिचरिते
कृतार्थ मन्यमानः स स्वात्मानं सद्ब्रतान्वितः।। कृतोपासविधिस्तत्र स्थितो वाचंयमी बने ॥ ७२ ॥ यथाशक्ति समाधाय तेऽपि विद्युच्चरादयः। नीत्वोपवाससंख्याश्च तस्थुानावलंबिनः ।। ७३ ।। सिद्धभक्तिं समाध्यंते पठित्वाथ महामुनिः। प्रतस्थेऽतोऽनघे मार्गे पारणायै कृतोद्यमः॥ ७४ ॥ विशन्राजगृहे रम्ये पुरे शोभात सुसंयतः । अहो पुण्यपदार्थोऽयमायातो मूर्तिमानिव ।। ७५ ॥ आगच्छंते तमालोक्य दूरादानम्रमस्तकाः। प्रणेमुः श्रावकाः सर्वे श्रेयोऽर्थ वीतमत्सराः॥ ७६ ॥ केचिच्चित्रमिवालोक्य संजजल्पुः सविस्मयम् । योऽभू (द) ग्राग्रणीः पूर्व सोऽयं जातो मुनीश्वरः॥ ७७॥ अहो देवस्य वैचित्र्यं कर्मणां रसपाकतः। को वेत्ति किं कथं भावि ज्ञानादन्यत्र मादृशः ।। ७८ ॥ केचिदानरसाः शक्ताः प्रतिग्राहितुमुत्सुकाः। तस्थुर्व्यस्ताः खवीथ्यंतर्मार्गालोकनतत्पराः ॥ ७९ ॥ वदंति स्म जनाः केचित् स्वामिन्नत्र कृपां कुरु । पवित्रीकुरु नो वेश्म चरणाम्बुजरेणुभिः॥८॥ तिष्ठ तिष्ठात्र मद्रोहे जम्बूखामिन्महामुने । प्राशुकान्नं गृहाणाध निरवयं भक्त्या ( मया) र्पितम् ।। ८१॥ इहैवागच्छ मद्नेहमिहैवागच्छ मद्गृहम् । ऊचुरानेडितं भव्या मिथः केचिदितोऽमुतः ॥ ८२॥ १ आम्नेडितं द्विस्त्रिरुक्तं इत्यमरः ।