________________
जम्बूस्वामिनिर्वाणगमनवर्णनम्
२०९
अथानंदसमायुक्तः श्रेणिकादिनृपादिभिः। शिबिकायां स्थितो नीतो हस्ताद्धस्तैः स काननम् ॥ ३९ ॥ फलपुष्पसमाकीर्णमकालेऽपि फलोदयम् । तदा तत्काननं रेजे किंचिन्मृष्टविशेषकम् ॥ ४०॥ अनिलोदूतशाखाग्रेश्चलमानैरितस्ततः । जम्बृखामिकुमारस्यागमे नृत्यमिवातनोत् ।। ४१॥ तत्रस्थं मुनिमानम्य गुरुं सौधर्मसंज्ञकम् । उपविष्टो यथास्थाने कुमारोऽभिमुखं मुनेः॥४२॥ उत्तमांगे स विन्यस्य कुड्मलीकृतहस्तकम् । तेन जम्बूकुमारेण विज्ञप्तो मुनिरादरात् ॥ ४३॥ कृपासागर सद्वृत्त मामुद्धर भवार्णवात् । नानादुःखशतावैतनिमज्जत कुयोनिषु ॥ ४४ ॥ अद्य मे करुणां कृत्वा देहि दीक्षां भवापहाम् । पावनी सस्पृहां सर्वैः कर्मनिर्मूलनक्षमाम् ॥ ४५ ॥ लब्धानुज्ञः स शुद्धात्मा गुरोः सर्वसमक्षतः। अंगादुत्तारयामास भूषणानि विरक्तधीः ॥ ४६॥ तावत्पुष्पसजो मुक्ताः स्वकिरीटाग्रकोटितः।। दूरीकृता बलादेव मन्मथस्य शरा इव ।। ४७॥ आक्षिपन्मुकुटं मर्दनो हेलया रत्ननिर्मितं । मानौन्नत्यमिवाशेष निर्जयान्मोहभूपतेः ॥४८॥ ततोऽप्युत्तारयामास हारावल्याद्यलंकृतान् । मुद्रिकादींश्च सद्रत्ननिर्मितानंगतः स्फुटम् ॥ ४९ ॥
१४