________________
२०८
जम्बूस्वामिचरिते
इत्यादिबहुधालापविलपंतीमिवातुराम् । मातरं प्रति प्रोवाच जम्बूस्वामी दृढाशयः ॥ ३१ ॥ मातः शोकं जहीहि त्वं कातरत्वं परित्यज । । भावयाजस्रमेवेमामनित्यां संसृतिस्थितिम् ॥ ३२ ॥ आदौ वैषयिक सौख्यं मातभुक्त्वोज्झितं मया। बहुशोऽपि यतस्तद्धि न समीहामहे वयम् ॥ ३३ ॥ स्वर्गेऽपि यन्महाभोगेर्नागात्तृप्तिमयं जनः। एभिः स्वमनिर्भमत्यैः स कथं तृप्तिमाप्नुयात् ॥ ३४ ॥ न जाने कियतो वारानभवं नारकः सुरः। तिर्यक्चापि नरश्चाहं भूत्वा भूत्वा पुनः पुनः॥ ३५ ॥ उक्तं च“कति न कति न वारान् भूपतिभूरिभूतिः कति न कति न वारानत्र जातोऽस्मि कीटः । नियतमिति न कस्याप्यस्ति सौख्यं न दुःखं जगति तरलरूपे किं मुदा किं शुचा वा ॥ १ ।।” इति प्रभृतिवाक्यांशैरुचितैरमृतोपमैः। मातरं प्रतिबोध्याशु निरगात्स निजालयात् ॥ ३६॥ गच्छन्ननुवनं रेजे तदासो विमुखो गृहात । त्रुटद्धंधनस्वच्छंदो महागज इव द्रुतम् ॥ ३७॥ स्तुवंति स्म तदा तुष्टाः सर्वेऽप्यासन्नभव्यकाः। तृणाय मन्यमानं तं पदं साम्राज्यसन्निभम् ॥ ३८॥