________________
जम्बूस्वामिनिर्वाणगमनवर्णनम्
२०७
हा नाथ मन्महाप्राण हा कंदर्पकलेवर । अनाथा वयमद्याहो विनाप्यागाकृताः कथम् ॥ २० ॥ धिग्दैवं येन दत्तास्य तपसे बुद्धिरुत्कटा। पश्यता स्म महादुःख तत्कारुण्यमकुर्वता ॥ २१ ॥ अद्यापि भो कृपानाथ प्रसीद कुरु मार्दवम् । भुक्ष्व भोगान्नभोगाभान्नित्यूचुस्ताः प्रियास्तदा ॥२२॥ रजर्वयं कथं नाथ त्वां विना दीनवृत्तयः। यथा चन्द्राइते रात्रिरिति दनिगिरश्च ताः ॥२३॥ ततः सोपायमालंब्य चंदनादिद्रवैरपि । यत्नैर्जिनमती नीता ताभिश्चेतनतां तदा ॥ २४॥ सावधाना तदा प्रोचे माता जिनमती सती। वीरवैराग्यमारूढं स्वामिनं प्रति प्रश्रयात् ॥ २५॥ केदं तव वपुर्वत्स कदलीगर्भकोमलम् । खड्गधारानिभं पुत्र केदमुग्रतरं तपः॥२६॥ अंगुष्ठाज्ज्वलितो वह्निर्यथा याति स्वमस्तके । तथा तपो विजानीहि तस्मादप्यतिरिक्तकम् ॥ २७ ॥ कर्तु भूशयनं बाल कथं शक्नोषि दुःखदम् । बाहुमुच्छीर्षकं कृत्वा गमिष्यसि कथं निशाम् ॥ २८ ॥ अप्यावां (हि) परित्यज्य पितरौ कोमलाशयो। विना गा (2) दुःखितौ कृत्वा कथं यासि वनांतरे ॥ २९ ॥ इमा वध्वश्चतस्रोऽपि त्वामृते दुःखपूरिताः। एकाकिन्यो न शोभंते भावशून्याः क्रिया इव ॥ ३० ॥