________________
२०६
जम्बूस्वामिचरिते
ज्ञात्वा स भूषयामास स्वामिनं भूषणादिभिः । जानन्नपि विरागं तं भावशुद्धयर्थमात्मनः ॥९॥ चंदनादिद्रवैरंगं चर्चित स्वामिनो बभौ । यथा मेरौ जिनेशस्य भूपेनेवामरेशिना ॥ १० ॥ सशेखरं शिरस्तस्य शोभामापातिशायिनीम् । स्वयंवराय मुक्तश्रीकामिन्या इव संस्तुतम् ॥ ११ ॥ ततः सानुमतिर्भूत्वा भूपतिः श्रेष्ठिना सह । शिविकायां वहस्ताभ्यां स्थापयामास स्वामिनम् ।। १२ ।। वने गंतुं समुद्युक्तं स्वामिनं तपसः कृते । सर्वः पौरजनस्तत्रागमद्वीक्षितुमादरात् ॥ १३ ।। समकार्याण्यतीत्यापि धावंती जनसंहतिः। अद(१)ष्टमिव तं द्रष्टुमाजगाम सकौतुकात् ॥ १४ ॥ मुक्तभार्याचतुष्कोऽसौ सिद्धिसौख्याभिलाषवान् । धन्योऽयमिति सर्वेऽपि जजल्पुस्ते परस्परम् ॥ १५ ॥ हाहाकारो महानासीत्तदा राजगृहे पुरे । केचित्तत्स्नेहसंसक्ता मुमूर्च्छरिव दुःखिताः ॥ १६ ॥ अत्रांतरे समायाता माता जिनमती सती । स्रवदश्रुसमाक्रांतं गद्दं चाभिजल्पति ॥ १७॥ प्रतीक्षस्व क्षणं यावत्पुत्र मां मातरं प्रति । इति दीनगिरं मोहादुद्गिरंती मुमूर्च्छया ॥ १८ ॥ नष्टचेष्टामिवालोक्य श्वश्रू तावधूजनः । विललाप महामोहात् सशोकां गिरमुद्गिरन् ॥ १९ ॥