________________
जम्बूस्वामिविद्युच्चरकथाचतुष्कवर्णनम्
२०३
ततश्च गंतुकामं मां ज्ञात्वात्मीयगृहोन्मुखम् । चक्रुर्वैवर्ण्यमत्यंत कोपाक्रांतास्तु ताः खलाः ॥ १४१ ॥ निसर्गतोऽपि यत्सत्यं न वंदति कदाचन । किं पुनः कारणं प्राप्य तद्यथा स्वर्णकारकः ।। १४२॥ ततश्चापि क्रमादेव कृच्छ्राच्छन्नैह प्रति । आगतश्चंगनामासौ कथंकथमिवात्महा ॥ १४३ ॥ तत्रानीतैर्महावैद्यैर्नीतः सौरभ्यमादरात । सुगंधद्रव्यसंयोगः शोभनांगोऽभवद्यथा ॥ १४४॥ अथैकदा गतस्तत्र वीथ्यां कार्यवशादिह । राजसौधसमीपस्थो सृष्टः सोऽपि तया स्त्रिया ॥ १४५ ॥ तथैव सस्मरा सोचे चंगमुद्दिश्य संज्ञया । आगच्छागच्छ भो भूयोऽप्येकशो मम सद्मनि ॥ १४६ ।। चंगेनोक्तमलं स्नेहेस्तावकीयैः खलेऽधुना। यत्प्राप्तं त्वद्गृहादुःखं विस्मरामि न तत्क्षणम् ।। १४७॥ अद्यापि न तन्मदेहाद्दौर्गन्ध्यं याति सर्वतः। उपसर्गाच्चन्मुक्तोऽहं नाविमृश्यं करोम्यतः ।। १४८ ॥ तद्वन्नाहं भविष्यामि मुखलेशस्य हेतवे । तिर्यगादिगतिष्याहो जातुचिदुःखभाजनम् ।। १४९ ॥ बहुमलपितेनालं मातुल त्वमवैहि भो । नाहमाक्ष्यं सुखं मुंजे समाधानशतैरपि ॥ १५० ॥ ज्ञात्वा विद्युच्चरो दस्युः कुमारं दृढमानसम् । स्तुतिं चक्रे सुनिविण्णः सोऽप्यासन्नभवः स्वतः।। १५१ ॥